भारतकोश
वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary

भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा

DevanagariHindipublished835 पृष्ठ

पृष्ठ 460, कुल 835 में से

संदर्भ में पढ़ें
पृष्ठ 460

( ४१२ ) सिद्धान्तकौमुद्याम्-

वप्स्यामः । नेति वक्तव्ये लङ्ग्रहणं लुटोऽपि विषये यथा स्यात् । श्वः शीघ्रं वप्स्यामः आशंसावचने लिङ् । ३ । ३ । १३४ ॥ आशंसावाचिन्युपपदे भविष्यति लिङ् स्यान्न तु भूतवत् । गुरुश्चेदुपेयादाशंसेऽधीयीय । आशंसे क्षिप्रमधीयीय ॥ नानद्यतनवत्क्रि- याप्रबन्धसामीप्ययोः । ३ । ३ । १३५ ॥ क्रियायाः सातत्ये सामीप्ये च गम्ये लङ्लुटौ न । यावज्जीवमन्नमदादास्यति वा । सामीप्यं तुल्यजातीयेनाव्यवधानम् । येयं पौर्णमास्य- तिकान्ता तस्यामग्नीनाधित । सोमेनायष्ट । येयममावास्याऽऽगामिनी तस्यामग्नीनाधास्यते । सोमेन यक्ष्यते ॥ भविष्यति मर्यादावचनेऽवरस्मिन् । ३।३।१३६ ॥ भविष्यति काले मर्यादाक्ताववरस्मिन्प्रविभागेऽनद्यतनवन्न । योऽयमध्वा गन्तव्य आपाटलिपुत्रात्तस्य यदवरं कौशा- म्ब्यास्तत्र सक्तून्पास्यामः ॥ कालविभागेऽचानहोरात्राणाम् । ३ । ३ । १३७ ॥ पूर्व- सूत्रं सर्वमनुवर्तते । अहोरात्रसम्बन्धिनि विभागे प्रतिषेधार्थमिदम् । योगविभाग उत्तरार्थः । योऽयं वत्सर आगामी तस्य यदवरमाग्रहायण्यास्तत्र युक्ता अध्येष्यामहे । अनहोरात्राणां किम् । योऽयं मास आगामी तस्य योऽवरः पञ्चदशरात्रः तत्राध्येतास्महे ॥ परस्मिन्वि- भाषा । ३।३।१३८ ॥ अवरस्मिन्वर्जं पूर्वसूत्रद्वयमनुवर्तते । अप्राप्तविभाषेयम् । योऽयं संवत्सर आगामी तस्य यत्परमाग्रहायण्यास्तत्राध्ये ष्यामहे । अध्येतास्महे ॥ लिङ्निमित्ते लृङ् क्रियातिपत्तौ । ३।३।१३९ ॥ भविष्यतीत्येव । सुवृष्टिश्चेदभविष्यत्तदा सुभिक्षम- भविष्यत् ॥ भूते च । ३।३।१४० ॥ पूर्वसूत्रं सम्पूर्णमनुवर्तते ॥ वोताप्योः । ३। ३ । १४१ ॥ वा आ उताप्योरिति छेदः । उताप्योरित्यतः प्राग्भूते लिङ्निमित्ते लृङ् वेत्यधिक्रियते ।


१ नानद्यतनवदिति । अद्यतनभिन्नः कालोऽनद्यतनः । क्रियाणां प्रबन्धः सातत्येनानुष्ठानम् । २ भविष्यति मर्यादेति । अक्रियाप्रबन्धार्थमसामीप्यार्थञ्चेदम् । स्थित्यनतिक्रमो मर्यादा । सा द्विविधा कालरूपा, देशरूपा च । कालगतमर्यादात्वं च स्वस्त्रोत्तरकालोभयप्रागभावाधिकरणकालभवो यः समभिव्याहृतपदार्थः, तदनधिकरणत्वम् । देशगतमर्यादात्वं च स्वस्त्रोत्तरदेशयोः प्रयागतद्यावन्त- रालदेशवृत्तित्वसमभिव्याहृतपदार्थवृष्ट्याद्यनधिकरणत्वम् । तत्राद्या ( कालरूपा ) यथा “आमुक्तेः संसारः” इत्यादावाङोऽर्थः । अत्र मुक्तिपदं तत्कालपरम्, मर्यादा मर्यादाभिभावसम्बन्ध आङ्योत्यः पञ्चम्यर्थः । एवञ्च “मुक्तिमर्यादकः संसारः” इति बोधः । संसारे मुक्तिकालप्रागभावाधिकरणनिरूपिततद्भिन्नकालावृत्तित्वविशिष्ट- व्यापकताबोधस्त्वर्थः । ( ल० म० सुबर्थ० ) ॥ द्वितीया ( कालरूपा ) यथा-“प्रयागात् प्रभृत्याकाश्या वृष्टो देवः” इत्यादौ देशे मर्यादा । अत्र “ प्रयागादिकाशीमर्यादकवृष्टिकर्ता देवः ” इति बोधः । वृत्तौ प्रयागादिकाशीपश्चिमदेशनिरूपितस्वभिन्नावृत्तित्वसमानाधिकरणव्यापकताबोधस्त्वार्थः । ( ल० म० ) सु० ॥ प्रकृतसूत्रे देशकृतमर्यादा गृह्यते । उत्तरसूत्रे च कालकृतेति विवेकः ॥ ३ कालविभाग इति । कालकृतमर्यादोक्ताववरस्मिन् प्रविभागे सतीत्यर्थः ॥ ४ परस्मिन्निति । कालमर्यादाविभागे सति भविष्यति काले परस्मिन् प्रविभागे विभाषाऽनद्यतनवन्न स्यात्, नचेदहोरात्रसम्बन्धी विभाग इत्यर्थः ॥ ५ लिङ्निमित्त इति । कुतश्चिद् वैगुण्यादनभिनिर्वृत्तिः क्रियायाः क्रियातिपत्तिः । सुवृष्टिरिति । सुवृष्ट्याश्रयात्मधारणानुकूला भविष्यन्ती या क्रिया तदभावप्रयुक्ता सुभिक्षाश्रयात्मधारणानुकूलायाः क्रियाया असिद्धिः ।