वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 461, कुल 835 में से
संदर्भ में पढ़ेंपूर्वसूत्रं तु ‘उताप्योरित्यादौ प्रवर्तते इति विवेकः ॥ गर्हायां लडपिजात्वोः । ३ । ३ । १४२ ॥ आभ्यां योगे लट् स्यात् कालत्रये गर्हायाम् । लृङादीन्परत्वादयं बाधते । अपि जायां त्यजसि जातु गणिकामधत्से गर्हितमेतत् ॥ विभाषा कथमि लिङ् च । ३ । ३ । १४३ ॥ गर्हायामित्येव । कालत्रये लिङ् स्याल्लट् । कथं धर्मं त्यजेत्त्यजसि वा । पक्षे काल- त्रये लकाराः । अत्र भविष्यति नित्यं लृङ् भूते वा । कथं नाम तत्र भवान् धर्ममत्यक्ष्यत् ॥ अत्याक्षीद्वा ॥ किंवृत्ते लिङ्लुटौ । ३ । ३ । १४४ ॥ गर्हायामित्येव । विभाषा तु नानुव- र्तते । कः कतरः कतमो वा हरिं निन्देत् निन्दिष्यति वा । लृङ् प्राग्वत् ॥ अनवक्लृप्त्य- मर्षयोर्किंवृत्तेऽपि । ३ । ३ । १४५ ॥ गर्हायामिति निवृत्तम् । अनवक्लृप्तिरसम्भावना । अमर्षोऽक्ष