वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 463, कुल 835 में से
संदर्भ में पढ़ेंकार्षीः। कथं मा भवतु मा भविष्यतीति । नायं माङ्, किंतु माशब्दः ॥ धातुसंबन्धे प्रत्ययाः । ३।४।१॥ धात्वर्थानां संबन्धे यत्र काले प्रत्यया उक्तास्ततोऽन्यत्रापि स्युः । तिङ्वाच्यक्रियायाः प्राधान्यात्तदनुरोधेन गुणभूतक्रियावाचिभ्यः प्रत्ययाः ॥ वसन् ददर्श । भूते लट् । अतीतवासक- र्तृकर्तृकं दर्शनमर्थः । सोमयाज्यस्य पुत्रो भविता । सोमेन यक्ष्यमाणो यः पुत्रस्तत्कर्तृकं भव- नम् ॥ क्रियासमभिहारे लोट् लोटो हिस्वौ वा च तध्वमोः । ३ ।४। २ ॥ पौनः- पुन्ये भृशार्थे च द्योत्ये धातोर्लोट् स्यात्तस्य च हिस्वौ स्तस्तिङामपवादः । तौ च हिस्वौ क्रमेण परस्मैपदामनेपदसंज्ञौ स्तस्तिङ्संज्ञौ च । तध्वमोर्विषये तु हिस्वौ वा स्तः । पुरुषैकव- चनसंज्ञे तु नानयोरतिदिश्येते । हिस्वविधानसामर्थ्यात् । तेन सकलपुरुषवचनविषये परस्मैप- दिभ्यो हिः कर्तरि । आत्मनेपदिभ्यः स्वो भावकर्मकर्तृषु ॥ समुच्चयेऽन्यतरस्याम् । ३ । ४ । ३ ॥ अनेकक्रियासमुच्चये द्योत्ये प्रागुक्तं वा स्यात् ॥ यथाविध्यनुप्रयोगः पूर्व- स्मिन् । ३ । ४ । ४ ॥ आद्ये लोड्विधाने लोट्प्रकृतिभूत एव धातुरनुप्रयोज्यः ॥ समुच्चये सामान्यवचनस्य । ३ । ४ । ५ ॥ समुच्चये लोड्विधौ सामान्यार्थस्य धातोरनुप्रयोगः स्यात् । अनुप्रयोगायथायथं लडादयस्तिबादयश्च । ततः संख्याकालयोः पुरुषविशेषार्थस्य चाभिव्यक्तिः ॥ क्रियासमभिहारे द्वे वाच्ये * ॥ याहियाहीति याति । पुनः पुनरतिशयेन वा यानं ह्यन्त- स्यर्थः । एककर्तृकं वर्तमानकालिकं यानं यातीत्यस्य । इति शब्दस्त्वभेदान्वये तात्पर्यं ग्राह- यति । एवं यातः । यान्ति ॥ यासि । याथः । याथ ॥ यातयातेति यूयं याथ ॥ याहियाही- त्ययासीत् यास्यति वा । अधीष्वाधीष्वेत्यधीते । ध्वंविषये पक्षेऽधीध्वमधीध्वमिति यूयमधीध्वे । समुच्चये तु सक्तून्पिब धानाः खादेत्यभ्यवहरति । अन्नं भुङ्क्ष्व दाधिकमास्वादयस्वेत्यभ्यवह- रते । तध्वमोस्तु पिबत खादतेत्यभ्यवहरथ । भुङ्ग्ध्वमास्वादयध्वमित्यभ्यवहरध्वे । पक्षे हिस्वौ । अत्र समुच्चीयमानविशेषाणामनुप्रयोगार्थेन सामान्येनाभेदान्वयः । पक्षे सक्तून्पि- बति । धानाः खादति । अन्नं भङ्क्ते । दाधिकमास्वादयते । एतेन ।
१ सर्वलापवादत्वाच्छङ्कते-कथमिति ॥ २ माशब्द इति । ननु निरनुबन्धकमाशब्दप्रयोगे यदि सर्वे लकारास्तर्हि सूत्रवैयर्थ्यमिति चेन्न, सर्वलकारविषयेऽङाडुरहितलुङन्तप्रयोगार्थं तस्यावश्यकत्वात् ॥ ३ नन्वेवं “ वसन् ददर्श ” इत्यादौ भूते लङिव वर्तमाने लिडित्यपि स्यादत आह-तिङ्वाच्येति ॥ ४ तस्येति । लोट इत्यर्थः ॥ तौ चेति । “लोट्” इत्यनुवर्त्य “हिस्वौ लोडादेशहिस्ववत्” इत्यर्थ इति भावः ॥ उक्तातिदेशबलादेवाह-तिङ्संज्ञौ चेति । तेन पदत्वसिद्धिः ॥ ननु “वा च तध्वमोः” इति वाक्यशेषात्सङ्गतिस्तिडां हिस्वाभ्यां बाधेन तध्वमोरभावादत आह-तध्वमोर्विषय इति । विषयसप्तमी सेति भावः ॥ ५ समुच्चय इति । अनुप्रविष्टसमुच्चितधात्वर्थकत्वं सामान्यवचनत्वम् ॥