भारतकोश
वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary

भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा

DevanagariHindipublished835 पृष्ठ

पृष्ठ 464, कुल 835 में से

संदर्भ में पढ़ें
पृष्ठ 464

( ४१६ ) सिद्धान्तकौमुद्याम्- 'पुरीमवस्कन्द लुनीहि नन्दनं मुषाण रत्नानि हरामराङ्गनाः । विगृह्य चक्रे नमुचिद्विषा बली य इत्थमस्वास्थ्यमहर्दिवं दिवः ॥ इति व्याख्यातम् । अवस्कन्दनलवनादिरूपा भूतानद्यतनपरोक्षा एककर्तृका अस्वास्थ्य- क्रियेत्यर्थात् । इह पुनःपुनश्चस्कन्देत्यादिरर्थ इति तु व्याख्यानं भ्रममूलकमेव । द्वितीयसूत्रे क्रियासमभिहार इत्यस्यानुवृत्तेः । लोडन्तस्य द्वित्वापत्तेश्च ॥ पुरीमवस्कन्देत्यादि मध्यमपुरुषै- कवचनमित्यपि केषांचिद्भ्रम एव । पुरुषवचनसंज्ञे इह नेत्युक्तत्वात् ॥ इति लकारार्थप्रकरणम् ॥ इति भट्टोजिदीक्षितविरचितायां सिद्धान्तकौमुद्यामुत्तरार्धे तिङन्तं समाप्तम् ।पुरीमिति । यो बली बलवान् रावणः, नमुचिद्विषा इन्द्रेण, विगृह्य कलहं कृत्वा, पुरीममरावतीम्, अवस्कन्द अवरोध । नन्दनमिन्द्रवनम्, लुनीहि चिच्छेद । रत्नानि श्रेष्ठवस्तूनि मणीन् वा, मुषाण मुमोष । अमराङ्गना देवस्त्रीः, हर जहार । इत्थमनेनेन प्रकारेण, अहर्दिवमहन्यहनि, दिवः स्वर्गस्य, अस्वास्थ्यमुपद्रवम्, चक्रे कृतवान् । इति पदार्थः । पुरीकर्मकावस्कन्दनाभिन्नं नन्दनवनकर्मकलवनाभिन्नं बलिकर्तृकं दिवोऽस्वा- स्थ्यकरणमिति बोधः ॥ सामान्यतः शाब्दबोधश्च धात्वर्थमुख्यविशेष्यकः, प्रथमान्तार्थमुख्यविशेष्यको वा इति । तत्र “धात्वर्थमुख्यविशेष्यक एव भवति” इति वैयाकरणा आहुः । नैयायिकास्तु स च ( शाब्दबोधः ) प्रथमान्तार्थमुख्यविशेष्यक एव ज्यायानिति प्राहुः । तत्र वैयाकरणमते मुख्योदाहरणानि चैत्रेण सुप्यते, पश्य मृगो धावति, पचति भवति, शृणु मेघो गर्जति, इत्यादीनि । चैत्रेण सुप्यते इत्यादौ “चैत्रकर्तृकः स्वापः” इति क्रियामुख्यविशेष्यको बोधः । “पश्य मृगो धावति” इत्यादौ “मृगाभिन्नकर्तृकधावनकर्मकं दर्शनम्” इति क्रियामुख्यविशेष्यको बोधः । “पचति भवति” इत्यादौ “पाकाभिन्नकर्तृकं भवनम्” इति क्रियामुख्य- विशेष्यको बोधः । “शृणु मेघो गर्जति” इत्यादौ तु “मेघाभिन्नकर्तृकगर्जनकर्मकं श्रवणम्” इति धात्वर्थ- मुख्यविशेष्यको बोधः । अत्र वैयाकरणानामयमाशयः-पश्य मृगो धावतीत्यत्र धावनक्रियायाः दृशिक्रियायां कर्मतयाऽन्वयेऽपि तस्याः प्रातिपदिकार्थत्वाभावान्न “धावति” पदोत्तरं द्वितीयापत्तिः । नैयायिकमते तु- मृगपदार्थस्य दृशिक्रियायामन्वयेन तस्य प्रातिपदिकार्थत्वेन च मृगपदोत्तरं द्वितीयापत्तिश्च” इति । नैयायिकमते मुख्योदाहरणानि तु “घटो न भवति पटः” “त्रयः कालाः” पश्य लक्ष्मण पम्पायां बकः परमधार्मिकः, अश्वो गच्छत्यानय, इत्यादीनि द्रष्टव्यानि । “घटो न भवति पटः” इति वाक्यात् “घटभेदवान् पटः” इति प्रथमान्तार्थमुख्यविशेष्यको बोधः । “त्रयः कालाः” इत्यत्र “त्रित्वविशिष्टाः कालाः” इति कालमुख्यविशे- ष्यक एव बोधः । “परमधार्मिको बकः पश्य” इत्यादौ “परमधार्मिकत्वविशिष्टबकं पश्य” इति बोधः । “अश्वो गच्छत्यानय” इत्यादौ च “गमनकर्तृश्वमानय” इति प्रथमान्तार्थमुख्यविशेष्यक एव बोधः । अत्र नैयायिकानामयमाशयः-“त्रयः कालाः” इत्यत्र क्रियासमभिव्याहाराभावान्न क्रियामुख्यविशेष्यको बोधः । कालत्रयस्य जीवेन ज्ञातुमशक्यत्वेन “जीवेन ज्ञायन्ते” इत्यस्याध्याहारस्यासंभव एव । “ईश्वरेण ज्ञायन्ते” इत्यस्याध्याहारे क्रियमाणे तु मानाभावः । अस्तिर्भवन्तीपरोऽप्रयुज्यमानोऽप्यस्ति” इति भाष्यनियमस्य जीवपरत्वेन तत्रालाभाच्च । “सन्ति” इत्यस्य तु नाध्याहारः संभवति, इदानीं त्रयाणां कालानामविद्यमान- त्वादिति । युक्तायुक्तत्वं स्वयमूहनीयं विस्तरभिया नाधिकं प्रपञ्चितमिति दिक् ॥ इतिलकारार्थ प्रक्रिया ॥

वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध) · पृष्ठ 464, कुल 835 में से · BharatKosha