भारतकोश
वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary

भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा

DevanagariHindipublished835 पृष्ठ

पृष्ठ 467, कुल 835 में से

संदर्भ में पढ़ें
पृष्ठ 467

र्गान्मा भूदिति । प्रयाम्यम् । निपूर्वात्स्यादेव । ‘तेन न तत्र भवेद्विनियम्यमिति वार्तिकप्रयोगात् । एतेन ‘अनियम्यस्य नायुक्तिः ’ । ‘त्वया नियम्या ननु दिव्यचक्षुषेत्यादि व्याख्यातम् । नियमे साधुरिति वा ॥ अवद्यपण्यवर्या गर्ह्यपणितव्यानिरोधेषु । ३ । १ । १०१॥ वदेर्ऋञि उप- पदे वदः सुपीति यत्क्यपोः प्राप्तयोर्यदेव सोऽपि गर्हायामेवेत्युभयार्थं निपातनम् ॥ अवद्यं पापम् ॥ गर्हे किम् ? अनुद्यं गुरुनाम । तद्धि न गर्ह्यम्, वचनानर्हं च ॥ ‘ आत्मनाम गुरो- र्नाम नामातिकृपणस्य च । श्रेयस्कामो न गृह्णीयाज्ज्येष्ठापत्यकलत्रयोः’ इति स्मृतेः । पण्या गौः । व्यवहर्तव्येत्यर्थः । पण्यमन्यत् । स्तुत्यर्हमित्यर्थः ॥ अनिरोधोऽप्रतिबन्धस्तस्मिन्विषये वृङो यत् । शतेने वर्या कन्या । वृत्यान्या ॥ वह्यं करणम् ।३