वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 468, कुल 835 में से
संदर्भ में पढ़ेंवृङस्तु वार्या ऋत्विजः । आदृत्यः । जुष्यः । पुनः क्यबुक्तिः परस्यापि ण्यतो बाधनार्था अवश्यस्तुत्यः ॥ शंसिदुहिगुहिभ्यो वेति काशिका ॥ शस्यम् । शंस्यम् । दुह्यम् । दोह्यम् । गुह्यम् । गोह्यम् । 'प्रशस्यस्य श्रः' । 'ईडवन्दवृशंसदुहां ण्यत्' इति सूत्रद्वयबलाच्छन्दसः सिद्धम् । इतरयोस्तु मूलं मृग्यम् ॥ आङ्पूर्वादञ्जेः संज्ञायामुपसंख्यानम् * ॥ अञ्जू व्यक्तिम्रक्ष- णादिषु । बाहुलकात्करणे क्यप् । 'अनिदितामिति नलोपः । आज्यम् ॥ ऋदुपधाच्चाक्लृ- पिश्चृतेः । ३ । १ । ११० ॥ वृत्—वृत्यम् । वृध्—वृध्यम् । क्लृपिचृत्योस्तु । कल्प्यम् । चर्यम् । तपरकरणं किम् ? कृत् । कीर्त्यम् । 'अनित्यण्यन्ताश्चरादय ' इति णिजभावे ण्यत् । णिजन्तात्तु यदेव ॥ ई च खनः । ३ । १ । १११ ॥ चात् क्यप् ॥ आदुगः । खेयम् । इ चेति ह्रस्वः सुपठः ॥ भृञोऽसंज्ञायाम् । ३ । १ । ११२ ॥ भृत्याः कर्मकराः । भर्त्तव्या इत्यर्थः । क्रियाशब्दोऽयं न तु संज्ञा ॥ समश्च बहुलम् * ॥ संभृत्यः । संभार्यः । असं- ज्ञायामेव विकल्पार्थमिदं वार्तिकम् । असंज्ञायां किम् ? भार्या नाम क्षत्रियाः । अथ कथं 'भार्या वधूरिति । इह हि ' संज्ञायां समज्या' इति क्यपा भाव्यम् । संज्ञापर्युदासस्तु पुंसि चरि- तार्थः । सत्यम् । बिभर्तेर्भृ इति दीर्घान्तात् क्र्यादेर्वा ण्यत् । क्यप् तु भरतेरेव । 'तदनुबन्धक- ग्रहणे नातदनुबन्धकस्य' इति परिभाषया ॥ मृजेर्विभाषा । ३ । १ । ११३ ॥ मृजेः क्यब्वा स्यात्पक्षे ण्यत् ॥ मृज्यः ॥ चँजोः कुघिण्ण्यतोः । ७।३।५२ ॥ चस्य जस्य च कुत्वं स्यात् णिति ण्यति च प्रत्यये परे ॥ 'मृजेर्वृद्धिः ' । मार्ग्यः ॥ न्यङ्क्वादीनां च । ७ । ३ । ५३ ॥ कुत्वं स्यात् । न्यङ्कुः । नावञ्चेरित्युप्रत्ययः ॥ राजसूयसूर्य्यमृषोद्यरुच्यकुप्यकृष्टपच्याऽव्यथ्याः । ३ । १ । ११४ ॥ एते सप्त क्यबन्ता निपात्यन्ते ॥ राज्ञा सोतव्योऽभिषवद्वारा निष्पा- दयितव्यः । यद्वा । लतात्मकः सोमो राजा स सूयते कण्ड्यतेऽत्रेत्यधिकरणे क्यप् । निपात- नाद्दीर्घः । राजसूयः । राजसूयम् । अर्धर्चादिः ॥ सरत्याकाशे सूर्यः । कर्तरि क्यप् । निपात- नादुत्वम् । यद्वा षू प्रेरणे तुदादिः । सुवति कर्मणि लोकं प्रेरयति क्यपो रुट् ॥ मृषोपपदाद्वदेः कर्मणि नित्यं क्यप् । मृषोद्यम् । विशेष्यनिघ्नोऽयम् । 'उच्छ्रायसौन्दर्यगुणा मृषोद्याः' ॥ रोचते रुच्यः ॥ गुपेरादेः कत्वं च संज्ञायाम् । सुवर्णरजतभिन्नं धनं कुप्यम् । गोप्यमन्यत् । कृष्टे स्वय- १ वार्या इति । अत्र निरोधस्य विवक्षणेन "अवद्य-" इत्यस्य न प्राप्तिरिति भावः ॥ २ ह्रस्वः सुपठ इति । सूत्रे “ये विभाषा” इत्यात्त्वबाधनार्थं प्रश्लेषेण इकारद्वयपाठः । अन्यथा “ये विभाषा” इत्यस्य “ये” इति विषयसप्तम्याऽन्तरङ्गत्वम्, ईत्वस्य क्यपा सह विधानेन बहिरङ्गत्वमित्यात्त्वं स्यात् । भाष्ये तु क्यपा सह- विधानादस्यैवान्तरङ्गत्वम्, “ये” इति परसप्तमीत्याश्रित्य दीर्घे प्रत्याख्यातम् । न च “षत्वतुकोरसिद्धः” इत्यनेनासिद्धत्वात् तुगापत्तिरिति वाच्यम्, ‘पदान्तपदाद्योरेवैकादेशोऽसिद्ध’ इति सिद्धान्तात् । अन्यथा “वृक्षे छत्रम्” इत्यत्र ह्रस्वाश्रयो नित्यस्तुक् स्यात् । इष्यते तु वैकल्पिकः । इति मनोरमाकारः । वस्तुतस्तु विषय- सप्तमीस्वीकारेऽपि जनादिसाहचर्येण यादिप्रत्ययोत्पत्तिपूर्वकाले नान्तस्यैवाऽऽत्त्वविधानेनाऽत्र तदप्राप्त्या नस्येत्वे आदुणेन रूपसिद्धेः ॥ इत्येतत्क्लेशपरिहारायैव दीर्घोच्चारणमिति नागेशोक्तो रम्यो मार्गः ॥ ३ चजो- रिति । स्थानिनिमित्तयोर्यथासंख्यं न “रागात्” इत्यादिनिर्देशात् ॥