वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 47, कुल 835 में से
संदर्भ में पढ़ें( ३० ) लघुत्रिमुनिकल्पतरुः । एवं च नागेशभट्टात्पूर्वः तृतीयः पुरुषः भट्टोजिदीक्षित इति पंडितराजाद्वितीयः पुरुषो नागेश ( गोजी ) भट्ट इत्यपि ज्ञायते । जगन्नाथपंडितराजसमयः ( १६६६ ) तमः आङ्गलाब्दः । तेन पुरुषद्वयपर्याप्तानां सामान्यतः चत्वारिंशद्वर्षाणां ( ४० ) योजने ( सन् १७०६ ) तम ख्रिस्ताब्दोऽस्य नागेश ( गोजी ) भट्टस्य समयः । ( २० ) संख्यया तत्पूर्वकाले वियोजिते भट्टोजिदीक्षितस्य ( सन् १६४६ ) तमाङ्गलाब्दो भवति समयः । अत्र च जयमहाराजाः श्रीसवाईजयसिंहवर्मणोश्वमेधप्रसंगे श्रीनागेशभट्टायामन्त्रणपत्रं प्राहिण्वन् । तदा नागेशभट्टेनाहं क्षेत्रसन्यासं गृहीत्वा काश्यामस्मि । अतस्तां परित्यज्यान्यत्र गन्तुं न शक्नोमीत्युत्तरं प्रहितम् । एषा किंवदन्ती जयपूरेऽधुनापि प्रसिद्धा । श्रीजयसिंहमहाराजा श्च ( सन् १७१४ ) तमाङ्गलाब्देश्वमेधं कृतवन्त इति प्रसिद्धमेव ।—अयमश्वमेधयज्ञसंवत्सरोपि पूर्वोक्तरीत्या ( १७०६ ) तमाङ्गलसंवत्सरारम्भसमय एवेति ख्रिस्ताब्दीयाष्टादशशतकप्रथम- तुरीयांशे नागेशभट्ट आसीदिति व्यक्तमेव । केचित्तु ख्रिस्ताब्दीयाष्टादशशतकपूर्वार्द्धानन्तरं नागेश ( गोजी ) भट्टस्थितिं कथयन्ति ॥ हरिदीक्षितशिष्योऽयं नागेशभट्टः स्वशिष्याच्छृङ्गवेरपुराधीशविसेनवंशसमुद्भूताद्रामनृपालब्धजीवनो बहून् ग्रन्थान्प्रणिनाय । तत्रेदानीमुपलभ्या ग्रन्थास्त्वेते-- १ काव्यप्रकाशोद्योतः । १ बृहच्छब्देन्दुशेखरः । १ रसमञ्जरीटीका । १ परमलघुमञ्जूषा । १ अन्यो बृहच्छब्देन्दुशेखरः । १ लघुमञ्जूषा । १ परमार्थसारविवरणम् । १ प्रायश्चित्तेन्दुशेखरः । १ वृत्तिसंग्रहः । १ परिभाषेन्दुशेखरः । १ बृहन्मञ्जूषा । १ वेदान्तसूत्रवृत्तिः । १ लघुशब्देन्दुशेखरः । १ भाष्यप्रदीपोद्योतः । १ सप्तशतीटीका । १ रसतरंगिणीटीका । १ योगसूत्रवृत्तिः । १ साङ्ख्यसूत्रवृत्तिः १ रसगङ्गाधरमर्मप्रकाशः । १ सापिण्ड्यनिर्णयः । १ लघुशब्दरत्नम् (स्वगुरु) १ त्रिंशच्छ्लोकी (अशौचनिर्णयः)। १ बृहच्छन्दरत्नम् । नाम्नानेन कृते शब्दरत्ने इमे इति लोके प्रसिद्धिः प्रकृतमनुसरामः रात्रौ यवन्या विहृत्य काश्यां गङ्गातटे शयानः पंडितजगन्नाथः भट्टोजीदीक्षितेन सारस्वत- ब्राह्मणेन श्लिष्टपदप्रायभाषणेन तदहङ्कारनिरसनद्वारा हितमुपदिष्टः तां यवनीं परिगृहीतां तत्याजेत्युदन्तोपि भट्टोजीदीक्षितसमयनिर्णायको जागर्ति-- अत्रेदं बोध्यम्-भट्टोजीदीक्षितः सारस्वतब्राह्मणः शालिवाहनशकस्य पञ्चदशे ( १५ ) शतके आसीत् । एतद्वंश्या महाराष्ट्रे देवालये देवपूजनोपजीविनो दीक्षिताभिधा आसन् । स्वयं तदन्तर्गतोपि शास्त्राभ्यासेन प्रतिष्ठा सम्पादनीयेति पर्यालोच्य काशीं गत्वा तत्र शास्त्राण्यधीते स्म । ततोचिरादयं महाचार्यो बभूव । ततो पाणिनिव्याकरणशास्त्रे सिद्धान्तकौमुदीप्रभृतीनन्य- शास्त्रेष्वपि बहून्ग्रन्थान्व्यलिखत् । तेषां प्रचारार्थं तान्विलेख्य विलेख्य स बहुभ्यः पंडितेभ्यः