भारतकोश
वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary

भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा

DevanagariHindipublished835 पृष्ठ

पृष्ठ 46, कुल 835 में से

संदर्भ में पढ़ें
पृष्ठ 46

इत्यन्ये । ( युक्तं चैतत् ) " वल्लवीवल्लभं नत्वा गुरुं भट्टोजिदीक्षितम् । अमरे विदधे व्याख्यां मुनित्रयमतानुगाम् " इति ग्रन्थस्यादावेव तत्कृत्वा मध्येऽन्ते च मङ्गलस्य भट्टोजिदीक्षितवद्कर- णाद्रामश्रमनाम्नास्य टीकाग्रन्थस्य कृतत्वेन प्रसिद्धेः तन्नाम्नोत्रानुक्तेश्च भानुजिदीक्षितकर्तृकत्व- मस्येति न निश्चेतुं शक्यते । गुरुं भट्टोजिदीक्षितमित्युक्त्या तदीयविद्यार्थिषु भानुजिदीक्षितः स्यादेको न तु तत्पुत्रः । यत्तु भानुजिदीक्षित एव सन्न्यासोत्तरं रामाश्रमनाम्नाऽऽसीत् । तत- स्तत्कृतोयं ग्रन्थ इति युक्तिं कथयन्ति ॥ तन्न ॥ गुरुं भट्टोजिदीक्षितमिति मङ्गलश्लोकोक्त रीत्या स्वयं संन्यस्य भट्टोजिदीक्षितस्य स्वपूर्वपितुर्नमस्कारकरणाद्योगात् । एतद्भानुजिदीक्षितपुत्रेण हरिदीक्षितेन मनोरमाव्याख्यानरूपं शब्दरत्नग्रन्थद्वय कृतम् । भट्टोजिदीक्षितपुत्रो वीरेश्वरदी- क्षित इति रसगङ्गाधरप्रस्तावनायां लेखो दृश्यते इति पुत्रद्वयं वा सहानेनास्य, तस्यैव नामान्तरं वेति तु चिन्त्यम् । यदि वीरेश्वरस्त्यात्तर्ह्ययं भट्टोजिदीक्षितः काश्यामुवासेति निश्चीयते । वीरेश्वर इति नाम्नः तत्रैव प्रसिद्धेः । भट्टोजिदीक्षितेन विरचिता ग्रन्थाः-लिखितपुस्तकसंग्राहकलैब्रेरीस्था- नादुपलब्धपुस्तकसूच्यनुसारेणान्यतश्चोपलब्धसूच्यनुसारोणापि प्रदर्श्यन्ते ( १ ) आशौचप्रकरणम् । ( २ ) कालनिर्णयः- ( हेमाद्रिसारभूतः ) । ( ३ ) चतुर्विंशतिमतव्याख्या । ( १ ) आचारकाण्डः । ( २ ) संस्कारकाण्डः । ( ३ ) प्रायश्चित्तकाण्डः । ( ४ ) श्राद्धकाण्डः । ( ४ ) तिथि- निर्णयः । ( ५ ) ( शाब्दिक )-सिद्धान्तकौमुदी । ( ६ ) शब्दकौस्तुभः- लक्षग्रंथात्मकः एकः, तत्सारभूतश्चान्यः विनादौ नवाह्निकम् ( ७ ) । प्रवरनिर्णयः ( ८ ) तत्त्वकौस्तुभः । ( ९ ) मनोरमा सिद्धान्तकौमुदीव्याख्या । ( १० ) दायभागः । ( ११ ) तन्त्रसिद्धान्तदीपिका । ( १२ ) त्रिस्थलीसेतुः ( १३ ) तैत्तिरीयसन्ध्याभाष्यं चेति । तत्र शब्दकौस्तुभसाराख्यो ग्रंथः संपूर्ण न रचितः । अनुपलब्धेः । परन्त्वध्यायचतुष्टयं बहुषु स्थलेषु लभ्यते इति केचित् । ततः तदन्त एव ग्रन्थो रचित इति वक्तुमशक्यम् । अग्रे वक्ष्यते इति शब्दकौस्तुभे एओङिति सूत्रे उक्तेरित्यन्ये । रसगङ्गाधरटीकाप्रणेत्रा शिवभट्टसतीदेव्योः सूनुना नागेशभट्टेन काश्यां कस्मिन्समये स्थितमिति विचारावसरे मनोरमाकुचमर्दनलघुमञ्जूषादिवहुग्रन्थविलोकेनेनेत्थं पुरुषपरम्परा निश्चिनुमः- शेषश्रीकृष्णः । ───────────────────────┬─────────────────────── │ │ भट्टोजिदीक्षितः ( शिष्यः ) शेषवीरेश्वरः ( पुत्रः ) │ │ वीरेश्वरदीक्षितः ( पुत्रः ) पण्डितराजजगन्नाथः ( शिष्यः ) │ │ हरिदीक्षितः ( पुत्रः ) ० │ │ नागेश(गोजी)भट्टः ( शिष्यः ) ०