वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 45, कुल 835 में से
संदर्भ में पढ़ेंइति । तत्र द्विसहस्रेष्विति निर्धारणे सप्तमी । दशाधिकशतत्रये इति सति सप्तमी । तथा च कलेर्द्विसहस्रवर्षमध्ये दशाधिकशतत्रये सति नन्दराज्यमित्यर्थः । (२०००-३१०=१६९०) । एवं च कलेर्दशाधिकशतत्रयन्यूनेषु द्विसहस्रवर्षेषु व्यतीतेषु नन्दा राज्यपरिपालनमारभन्तेति यावत् । नन्दराजराज्यकालश्च शतं समाः इत्युक्तम् ( १६९०-१००=१७९०) इदानी- न्तनैकोत्तरपञ्चसहस्रतमकलिवर्षसंख्यासु ( ५००१ ) उक्तसंख्यायाः ( १७९० ) वियोजने एकादशोत्तरद्विशताधिकत्रिसहस्रवर्षाणि ( ३२११) शिष्टानि भवन्ति । इतः प्राक् ( ३२११ )-चन्द्रगुप्तो राज्यधुरमुद्वहत् । ततश्च-तदा तदुत्तरं वा, महा- भाष्यं पतञ्जलिना निर्मितमिति वक्तव्यम् । स एव पतञ्जलिकालः । ततः प्राक् पाणिनिकात्या- यनयोः नन्दराज्यकाल एवेति चोक्तम् । अन्ये तु स्कान्दवचने “द्विसहस्रेषु” इत्यस्य स्थाने “त्रिसहस्रेषु” इति पाठान्तरम् । तत्पक्षेऽस्य कलेरेकोत्तरपञ्चसहस्रतम संख्याकवर्षेष्वादावे- कादशोत्तरद्विशताधिकत्रिसहस्रवर्षेष्वतीतेषु तदुत्तरस्मिन्वर्षे ( २२११) चन्द्रगुप्तराज्यारम्भ आसीदिति ज्ञेयम् । एवं च तदानीं तदुत्तरं वा महाभाष्यं पतञ्जलिना कृतमित्यादि प्राग्व- दिति दिगित्याहुः । नवीना आङ्ग्लपण्डितास्तु-आङ्गलदेशादाङ्गलशकात्पूर्वं षोडशोत्तरत्रिशतीतमेवर्षे (सन् ३१६) आङ्गलप्रभुवर्येोऽलेग्जाण्डर्नामा भरतखण्डमाजगाम । तस्मिन्नेव वर्षेऽत्र भरतखण्डे पाट- लीपुत्रराज्ये ( पाटणापत्तने ) चन्द्रगुप्तो राजा राज्यासनमारुरोह । ततः किञ्चित्कालोत्तरं तत एवाङ्गलदेशाद्भरतखण्डं प्रति सेल्यूकस्नाम्नो महाहिम्नः आङ्गलप्रभुवर्यस्यागमनसमयेऽत्र खण्डे ऽतिप्रबलो राजायमेवासीत् । नान्यः कोपि तादृश इति वदन्ति । अनेन च तदनन्तरकालि- कस्स इति वक्तव्यमिति बोध्यमिति दिक् । श्रीभट्टोजिदीक्षितस्य कालादिनिर्णयः । अयं भट्टोजिदीक्षितः कः किंजातीयः कदा कुत्र वासीदित्यादिकं किञ्चिद्विचारयामः-भट्टश- ब्दस्य शब्दकौस्तुभव्याख्यायुक्तरीत्या चतुश्शास्त्रज्ञे प्रवृत्तेः पूर्वकालेषु तथैव व्यवहाराच्चायं व्या- करणवेदान्तधर्मशास्त्रपूर्वमीमांसाशास्त्रज्ञः, कौमुद्यां स्वरवैदिकप्रक्रिययोः शाकलशाखास्थो- दाहरणाच्छाकलर्क्शाखाध्यायी । लोकव्यवहारानुसारेण काशिकाकृतश्शिष्य इति च ज्ञायते । तथा शाङ्करमतानुयायी । अत एव मध्वमतखण्डनायाद्वैततत्त्वकौस्तुभाख्यो ग्रन्थोऽनेन रचितः । अत एव न रामानुजादिमतानुयाय्यपि । यतः-श्रीशाङ्करब्रह्मसूत्रभाष्यानुसारेणैवाधिकरणानां रचना सूत्रपाठादिक्रमश्च तत्र तत्त्वकौस्तुभे दृश्यते । एवं वृद्ध्याह्निके पस्पशाह्निके च शुद्धाद्वैतमेव स्वाभिमतं प्रकाशयति स्म शब्दकौस्तुभे “श्रीलक्ष्मीरमणं नौमि गौरीरमणरूपिणम्” इत्यादिना । भट्टोजीत्यादेः जीत्यादिशब्दघटितत्वादसंस्कृते रामजी कृष्णजीत्यादिवज्जीत्यन्तस्य बहुवच- नान्तनामवाचकत्वेन नर्मदोत्तरदेश एव व्यवहारादयमपि तद्देशीय इति सामान्यतो ज्ञायते । न तु तद्देशीय इति निर्णेतुं शक्यते । अस्य पिता लक्ष्मीधरः । एतत्पुत्रो भानुजिदीक्षितः । येनामरसिंहकृतामरकोशस्य सुधा- नाम्नी व्याख्या बघेलवंशोद्भवश्रीमहीधरवंशाधिपकीर्तिसिंहदेवाज्ञया कृतेति वदन्ति । परन्तु स्वयं तेन नायं कृतो ग्रन्थः । किन्तु तन्नामाङ्कितत्वेन रामाश्रमनाम्ना विरचित इति ज्ञायते