वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 49, कुल 835 में से
संदर्भ में पढ़ें( ३२ ) पूर्वावृत्तिभूमिका । प्रसिद्धमेव खलु पदवाक्यप्रमाणपारापारीणमहामहोपाध्यायश्रीमद्भट्टोजी ( जि ) दीक्षित- विरचिताया वैयाकरणसिद्धान्तकौमुद्याः सौलभ्येनाध्यापकशक्त्यनुसारेण सकलशास्त्रसिद्धान्त- ज्ञानसंपादिकाया बहुधा तत्रत्रानेकवारं सम्मुद्रिताया अपि मुद्रयितॄणां मुद्रणाब्धिपारमपार- यन्त्या मुद्रितपुस्तकानां विक्रयणादिनासंग्रहमभिलक्ष्यैतद्व्याकरणशास्त्रक्षेत्रेऽध्यापकानां प्रवृत्तिर्भर- तखण्डवासिनान्येषां च संम्मोदं सनेधमानैवास्त इति । ततो वयमपि । वैयाकरणसकलमहामहा- निबन्धसारभूतसिद्धान्तमधुमत्या अस्याः-“अणुभ्यश्च महद्भ्यश्च शास्त्रेभ्यः कुशलो नरः । सर्वतस्सारमादद्यात्पुष्पेभ्य इव षट्पदः ” इति भागवतोक्तिमनुसंधाय पृथग्गणपाठधातु- पाठलिङ्गानुशासनसूत्राष्टाध्यायीसहिताया “उणादयो बहुलम्” इति शाकटायनप्रणीतोणादिसूत्र वृत्तिशान्तनवाचार्यप्रणीतफिड्सूत्रवृत्ति पविलासाया महोपकारकारकपाणिनीयशिक्षापाठरञ्जिता- यास्तथा मैसूरमहाराजश्रीकृष्णसार्वभौममहास्थानपण्डितकाशीशेषवेङ्कटाचलशास्त्रिकृतत्रिमुनि- कल्पतरुरूपशोभिताया अकारादिवर्णक्रमबद्धष्टाध्यायीधातुपाठमनोहरायाः तृतीयवारं सीसकाक्ष- रैरुत्तमयंत्रेषु सम्मुद्रणेन सर्वेषां द्विजानां विद्वत्त्वाख्यान्यादृशशक्तिविनयादिसुगुणवदध्ययनसम्प- त्यादिमत्तमहोत्सवे कामुकास्स्मः । भो महान्तो महाशयाः पण्डितवर्याः “ अपि पौरुष- मादेयं शास्त्रं चेद्युक्तिबोधकम् । अन्यत्त्वार्षमपि त्याज्यं भाव्यं न्यायैकसेविना ॥ युक्तियुक्त- मुपादेयं वचनं बालकादपि । अन्यत्तृणमिव त्याज्यमप्युक्तं परमेष्ठिना ॥ यो ह्यस्मत्तातकूपो- यमिति कौपं पिवेत्पयः । त्यक्त्वा गाङ्गं पुरःस्थं तं को नु शास्त्यतिरागिणम् ” इति योगवासि- ष्ठोक्तार्थवादोक्तिमालक्ष्य शास्त्रमर्यादिविचारेण तत्तत्सुफलनिष्पादकशक्तिमत्तया सन्यायविधि- युक्तिमदेव बोधनीयमिति तु पौरुषमेवेति श्रीमन्तो जानन्त्येवेति तथाध्यापने न मया किञ्चि- द्विज्ञापनीयाः । तत्साहायकृते कृतं व्ययमात्रपरिमितमूल्यं परिगृह्णन्त इदं पुस्तकं मम श्रमं सफलयन्तु शिष्याणामेतदध्ययनप्रचारसंवर्द्धनेन । भो भो अस्मदार्यकुलतिलकाङ्कुराः द्विज कुलालङ्काराः “ व्रजन्ति ते मूढधियः पराभवं भवन्ति मायाविषु ये न मायिनः । प्रविश्य निघ्नन्ति शठास्तथाविधा न संवृताङ्गान्निशिता इवेषवः ” इति । तथा “ अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति । नायं लोकोस्ति न परो न सुखं संशयात्मनः ” इति च नीत्युक्तिं पर्यालोच्य विद्यावत्सु तच्छून्येषु च मायाविषु मायोत्सारकविद्याह्यनव्यशस्त्रलाभाय तत्तत्फलेषु संशयानुत्पादाय च सर्वसिद्धान्तसारभूतामेनां वैयाकरणसिद्धान्तकौमुदीं पठितुमयतिष्यध्वं, तदा मदीयाभ्यर्थना साफल्यमगमिष्यतेति विज्ञापनाद्वारा मदीयैतत्पुस्तकमूद्रणश्रमसाफल्यं कर्तुमभ्यर्थये इत्यलं पल्लवितेन ॥ “ श्रीवेङ्कटेश्वरपदाब्जयुगं प्रणम्य श्रीकृष्णदासतनूजस्तव खेमराजः । याचे वरद्वयमहं बुधमण्डले च प्रीतिं क्रिया मम कुले सहजां त्वदीयाम् ” इति । विद्वज्जनकृपाकाङ्क्षी- खेमराज श्रीकृष्णदास “श्रीवेङ्कटेश्वर” मुद्रणयंत्रालयाध्यक्षः मुंबई.