वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 50, कुल 835 में से
संदर्भ में पढ़ें॥ श्रीगणेशाय नमः ॥ अथ वैयाकरणसिद्धान्तकौमुदी । अथ संज्ञाप्रकरणम् । मुनित्रयं नमस्कृत्य तदुक्तीः परिभाव्य च । वैयाकरणसिद्धान्तकौमुदीयं विरच्यते ॥ १ ॥ ऐउण् । १ । ऋऌक् । २ । एओङ् । ३ । ऐऔच् । ४ । हयवरट् । ५ । लँण् । ६ । ञमङणनम् । ७ । झभञ् । ८ । घढधष् । ९ । जबगडदश् । १० । खफछठथचटतव् । ११ । कपय् । १२ । शषसर् । १३ । हल्ँ । १४ । इति माहे- श्वराणि सूत्राण्यणादिसंज्ञार्थानि ॥ एषामन्त्या इतः ॥ लण्सूत्रेऽकारँश्च ॥ हकारादिष्वकार उच्चारणार्थः ॥ हलन्त्यम् ॥ १।३।३ ॥ हलिति सूत्रेऽन्त्यमित्स्यात् ॥ आदिरन्त्येन सहे- ता । १।१।७१ ॥ अन्त्येनेता सहित आदिर्मध्यगानां स्वस्य च संज्ञा स्यात् । इति हल्संज्ञा- ॥ श्रीदधिमथी जयति ॥ प्रणम्य श्रीदधिमथीं क्षेमराजेन प्रार्थितः । शिवदत्तो दधिमथीटिप्पणीं कर्तुमुद्यतः ॥ १ ॥ दधिर्भक्तजनान् धात्री मथी तदारिमाथिनी। देवी दधिमथी नाम धन्वदेशे विराजते ॥ २ ॥ १ ‘सुपां सुलुक्-’ इति विभक्तेर्लुक् । अत एव संहिताया अविवक्षणान्न संहिताकार्य्यम् ॥ ‘वर्णात् कारः’ इति कारप्रत्ययोऽपि न तत्र ‘बहुलम्’ इत्यनुवृत्तेः ॥ २ ‘अर्हेण’ इत्यत्राट्प्रत्याहारान्तर्गतत्वेन हकारस्य- वायेऽपि णत्वसिद्धयर्थमत्र हकारोपादानम् ॥ ३ पुनः कृतो णकारोऽनुबन्धः ‘व्याख्यानतो विशेषप्रतिपत्तिर्न हि संदेहादलक्षणम्’ इति परिभाषां ज्ञापयति ॥ ४ ‘अलिक्षत्’ इत्यत्र ‘शल इगुपधात्’ इति श्लेः क्ससिद्धयर्थं शल्- प्रत्याहारे हकारग्रहणार्थेदं सूत्रम् ॥ ५ महेश्वरेण उपज्ञाता माहेश्वरा अनुबन्धास्ते सन्ति यत्रेति माहेश्वराणि महेश्व- रोपाज्ञातानुबन्धयुतानि सूत्राणीति सूत्रेष्वनुबन्धयोगो महेश्वरकृतः । सूत्राणि तु वेदवदनादिसिद्धानीति भावः ॥ ६ एषामिति चतुर्दशसूत्राणामित्यर्थः ॥ ७ अनन्यत्वात्पृथगुक्तिः ॥ ८ ‘न पुनरन्तरेणाचं व्यञ्जनस्योच्चारणमपि संभवति’ इति भाष्योक्तेः ॥ ९ ‘न विभक्तौ तुस्माः’ इति सूत्रसार्थक्याय ‘हलन्त्यम्’ इत्यत्र हल्प्रत्याहारपरमेव हल्पदं ग्राह्यमिति वाक्यार्थबोधे पदार्थज्ञानस्य कारणत्वेन हल्पदार्थज्ञानमावश्यकमिति हल्पदार्थज्ञानसाधकस्य ‘आदि- रन्त्येन सहेता’ इत्यस्य वाक्यार्थबोधः प्रागावश्यकः । ‘आदिरन्त्येन सहेता’ इत्येतद्वाक्यार्थबोधे तु इत्पदार्थज्ञान- मावश्यकमिति तत्साधकस्य ‘हलन्त्यम्’ इत्येतद्वाक्यार्थबोधस्य प्रागावश्यकत्वमिति ‘हलन्त्यम्’ इति सूत्रवाक्यार्थ- बोधं विना ‘आदिरन्त्येन सहेता’ इत्येतद्वाक्यार्थबोधोऽसंभवी, ‘आदिरन्त्येन सहेता’ इत्येतद्वाक्यार्थबोधमन्तरा ‘हलन्त्यम्’ इत्येतद्वाक्यार्थबोधोऽसंभवीति परस्परपेक्षत्वरूपान्योन्याश्रयदोषस्यापत्तिरिति तां परिहर्तुं दीक्षितैः ‘हलन्त्यम्’ इति सूत्रस्यावृत्तिं कृत्वा यत्रार्थेऽन्योन्याश्रयदोषो नैवागच्छति तादृशमर्थमाह-हलिति सूत्र इति ॥ ‘सुपां सुपा’ इति समास इति भावः ॥