वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 492, कुल 835 में से
संदर्भ में पढ़ें( ४४४ ) सिद्धान्तकौमुद्याम्- निष्णातः शास्त्रेषु । नद्यां स्नातीति नदीष्णः । 'सुपीति कः ॥ सूत्रं प्रतिष्णाताम् । ८।३। ९० ॥ प्रतेः स्नातेः षत्वम् ॥ प्रतिष्णातं सूत्रम् । शुद्धमित्यर्थः । अन्यत्र प्रतिस्नातम् ॥ कपि- ष्ठलो गोत्रे । ८।३।९१ ॥ कपिष्ठलो नाम यस्य कापिष्ठलिः पुत्रः । गोत्रे किम् ? कपीनां स्थलं कपिस्थलम् ॥ विकुशमिपरिभ्यः स्थलम् । ८।३।९६ ॥ एभ्यः स्थलस्य सस्य षः स्यात् ॥ विष्ठलम् । कुष्ठलम् । शमिष्ठलम् । परिष्ठलम् ॥ गत्यर्थाकर्मकश्लिषशी- ङ्स्थासवसजनरुहजीर्य्यतिभ्यश्च । ३।४।७२ ॥ एभ्यः कर्तरि क्तः स्यात् भावकर्म- णोश्च ॥ गङ्गां गतः । गङ्गां प्राप्तः । ग्लानः सः । लक्ष्मीमाश्लिष्टो हरिः । शेषमधिशयितः । वैकुण्ठमधिष्ठितः । शिवमुपासितः । हरिदिनमुपोषितः । राममनुजातः । गरुडमारूढः । विश्व- मनुजीर्णः । पक्षे प्राप्ता गङ्गा येनेत्यादि ॥ क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः । ३।४।७६ ॥ एभ्योऽधिकरणे क्तः स्यात् चाद्यथाप्राप्तम् ॥ ध्रौव्यं स्थैर्यम् ॥ मुकुन्दैस्यासितमिदमिदं यातं रमापतेः । भुक्तमेतदनन्तस्येत्यूचुर्गोप्यो दिदृक्षवः ॥ आसेरकर्मकत्वात्कर्तरि भावे च । आसितो मुकुन्दः । आसितं तेन । गत्यर्थेभ्यः कर्तरि कर्मणि च । रमापतिरिदं यातः । तेनेदं यातम् । भुजेः कर्मणि । अनन्तेनेदं भुक्तम् ॥ कथं 'भुक्ता ब्राह्मणाः' इति । भुक्तमस्ति एषामिति मत्वर्थीयोऽच् । वर्तमाने इत्यधिकृत्य ॥ ञीतः क्तः । ३।२।१८७ ॥ ञिष्विदा । ष्विण्णः । ञिन्धी । इद्धः ॥ मतिबुद्धिपूजार्थेभ्यश्च । ३।२। १८८ ॥ मतिरिहेच्छा । बुद्धेः पृथगुपादानात् । राज्ञां मतः । इष्टः । तैरित्यमाण इत्यर्थः । बुद्धः । विदितः । पूजितः । अर्चितः । चकारोऽनुक्तसमुच्चयार्थः । शीलितो रक्षितः क्षान्त आकृष्टो जुष्ट इत्यादि ॥ नपुंसके भावे क्तः । ३।३।११४ ॥ क्लीबत्वविशिष्टे भावे कालसामान्ये क्तः स्यात् ॥ जल्पितम् । शयितम् । हसितम् ॥ सुयँजोर्ङ्वनिँप् । ३।२। १०३ ॥ सुनोतेर्यजेश्च ङ्वनिप्स्याद् भूते । सुत्वा । सुत्वानौ । यज्वा । यज्वानौ ॥ जीर्य्यते- रतृन् । ३।२।१०४ ॥ भूत इत्येव ॥ जरन् । जरन्तौ । जरन्तः । वासरूपन्यायेन निष्ठापि । जीर्णो जीर्णवान् ॥ छन्दसि लिङ् । ३।२।१०५ ॥ लिटः कानज्वा । ३।२।१०६ ॥ १ कपिष्ठल इति । गोत्रेऽभिधित्सिते कपिष्ठल इति निपात्यते । यः कपिष्ठलशब्दो गोत्रप्रत्ययप्रकृतित्वेन दृष्ट इति यावत् । अस्यात्रोपन्यासः प्रासङ्गिकः । एवं "विकुशमिपारिभ्यः-" इत्यस्यापि ॥ २ गत्यर्थाकर्म- केति । श्लिषादयः सोपसर्गाः सकर्मका भवन्ति तदर्थमेषामुपादानम् ॥ ३ क्तोऽधिकरणे चेति । कर्तृद्वारा कर्मद्वारा वा क्रियाश्रयत्वमधिकरणत्वम् । प्रत्यवसानं भक्षणम् ॥ ४ मुकुन्दस्येति । द्रष्टुमिच्छन्ति दिदृक्षन्ते २ इति दिदृक्षवो द्रष्टुमिच्छन्त्यः, गोप्य