भारतकोश
वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary

भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा

DevanagariHindipublished835 पृष्ठ

पृष्ठ 493, कुल 835 में से

संदर्भ में पढ़ें
पृष्ठ 493

An accurate, line-by-line transcription of the Sanskrit text from the image into Markdown format:

कसुश्च । ३ । २ । १०७ ॥ इह भूतसामान्ये छन्दसि लिट् तस्य विधीयमानौ कसुँकानचावपि छान्दसाविति त्रिमुनिमतम् ॥ कवयस्तु बहुलं प्रयुञ्जते- 'तं तस्थिवांसं नगरोपकण्ठे' इति 'श्रेयांसि सर्वाण्यधिजग्मुषस्ते' इत्यादि ॥ वस्वेकाजाद्धसाम् । ७ । २ । ६७ ॥ कृतद्विर्वचना- नामेकाचामदन्तानां घसेश्च वसोरिट् नान्येषाम् ॥ एकाच्--आदिवान् । आरिवान् । आत्-- ददिवान् । जक्षिवान् । एषां किम् ? बभूवान् ॥ भाषायां सद्वसश्रुवः । ३ । २ । १०८ ॥ सदादिभ्यो भूतसामान्ये भाषायां लिट् स्यात् ॥ तस्य च नित्यं कसुः । 'निषेदुषीमासनबन्ध- धीरः' । 'अध्यूपुषस्तामभवन्ननस्य' । शुश्रुवान् ॥ उपेयिवाननाश्वाननूचानश्च । ३ । २ । १०९ ॥ एते निपात्यन्ते ॥ उप