वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 513, कुल 835 में से
संदर्भ में पढ़ेंस्तनिहृषिपुषिगदिमदिभ्यो णेरित्नुच् ॥ अयामन्तेति णेरयादेशः । स्तनयित्नुः । हर्षयित्नुः । पोषयित्नुः । गदयित्नुर्वावदूकः । मदयित्नुर्मदिरा ॥ कृहनिभ्यां क्त्नुः ॥ कृत्नुः शिल्पी । हत्नुर्व्याधिः शस्त्रं च ॥ गमेः सम्बञ्च ॥ जिगन्त्वः ॥ दाभाभ्यां नुः ॥ दानु- र्दाता । भानुः ॥ वचेर्गश्च ॥ वग्नुः ॥ धेट इच्च ॥ धयति सुतानिति धेनुः ॥ सुवः कित् ॥ सूनुः पुत्रेऽनुजे रवौ ॥ जहातर्डेन्तलोपश्च ॥ जहुः ॥ स्थाणुः ॥ स्थाणुः कीले स्थिरे हरे ॥ अजिवृरीभ्यो निच्च ॥ अजेर्वी । वेणुः । वर्णुर्नददेशभेदयोः । रेणु- र्द्वयोः स्त्रियां धूलिः ॥ विषेः किच्च ॥ विष्णुः ॥ कृदाधाराचिकलिभ्यः कः ॥ बाहुलकान् कस्येत्सञ्ज्ञा । कर्को धवलघोटकः । दाको दाता । धाकोऽनड्वानाधारश्च । राका पौर्णमासी । अर्कः । कल्कः पापाशये पापे दम्भे विट्किट्टयोरपि ॥ सृवृभूशुषिमु- षिभ्यः कक् ॥ सृक उत्पलवातयोः । वृकः श्वापदकाकयोः । भूकं छिद्रम् । शुष्कः । मुष्कोऽण्डम् ॥ शुकवल्कोल्काः ॥ शुमेरन्त्यलोपः । शुकः । वल्कं वल्कलमस्त्रियाम् ॥ उष दाहे । पस्य लः । उल्का ॥ इण्भीकापाशल्यतिमर्चिभ्यः कन् ॥ एके मुख्या- न्येकेवलाः । भेको मण्डूकमेषयोरिति विश्वमेदिन्यौ । काकः । पाकः शिशुः । शल्कं शकलम् । अत्कः पथिकः शरीरावयवश्च । मर्कः शरीरवायुः ॥ नौ हः ॥ जहातेः कन् स्यान्नौ ॥ निहाका गोधिका ॥ नौ सदेर्डिच्च ॥ निष्कोऽस्त्री हेम्नि तत्पले ॥ स्यमेरीट् च ॥ स्यमीको वल्मीकः वृक्षभेदश्च । इट् ह्रस्व इति केचित् । स्यमिकः ॥ अजियुधुनीभ्यो दीर्घश्च ॥ वीकः स्याद्वातपक्षिणोः । यूका । धूको वायुः । नीको वृक्षविशेषः ॥ हियो रश्च लो वा ॥ ह्रीका ह्लीका त्रपा मता ॥ शकेरुन्नोन्तोन्युनयः ॥ उन उन्त उन्ति उनि एते चत्वारः स्युः ॥ शकुनः । शकुन्तः । शकुन्तिः । शकुनिः ॥ भुवो झिच् ॥ भवन्तिर्वर्तमान- कालः । बाहुलकादवेश्च । अवन्तिः । वदेर्वदन्तिः । किंवदन्ती जनश्रुतिः ॥ कन्युच् क्षिपेश्च ॥ चाद्भुवः । क्षिपण्युर्वसन्त इत्युज्ज्वलदत्तः । भुवन्युः स्वामिसूर्ययोः ॥ अनुङ्- नदेश्च ॥ चात्क्षिपेः । नदनुर्मेघः । क्षिपणुर्वातः ॥ कृवृदारिभ्य उनन् ॥ करुणो वृक्ष- भेदः स्यात्करुणा च कृपा मता । वरुणः । दारुणम् ॥ त्रो रश्च लो वा ॥ तरुणस्तलुनो युवा ॥ क्षुधिपिशिमिथिभ्यः कित् ॥ क्षुधुनो म्लेच्छजातिः । पिशुनः । मिथुनम् ॥ फलेर्गुक् च ॥ फल्गुनः पार्थः । प्रज्ञाद्यण् । फाल्गुनः ॥ अशेलशश्च ॥ लशुनम् ॥ अर्जेर्णिलुक् च ॥ अर्जुनः ॥ तृणाख्यायां चित् ॥ चित्त्वादन्तोदात्तः । अर्जुनं तृणम् ॥ अतेश्च ॥ अरुणः ॥ अजियमिशीङ्भ्यश्च ॥ वयुनं देवमन्दिरम् । यमुना । शयुनोऽजगरः ॥ वृतृवदिहनिकमिकषिभ्यः सः ॥ वर्षम् । तर्षः प्लवसमुद्रयोः । वत्सः । वत्सम् वक्षः । हंसः । कंसोऽस्त्री पानभाजनम् । कक्षं नक्षत्रम् ॥ प्लुषेरखोप- १ दाकेत्यादौ “केऽण” इति ह्रस्वो न “न कपि” इति साहचर्येण तद्धितस्यैव कस्य तत्र ग्रहणात् ॥ इति तृतीयपादः ॥