वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 516, कुल 835 में से
संदर्भ में पढ़ें( ४६६ ) सिद्धान्तकौमुद्याम्- अर्त्तिकमिश्रमिचमिदेविवासिभ्यश्चित् ॥ षड्भ्योऽरश्चित् स्यात् ॥ अररं कपाटम् । क्रमरः कामुकः । अमरः । चमरः । देवरः । वासरः ॥ कुवः क्ररन् ॥ कुररः पक्षिभेदः ॥ अङ्घिमदिमन्दिभ्य आरन् ॥ अङ्गारः । मदारो वराहः । मन्दारः ॥ गडेः कड च ॥ कडारः ॥ शृङ्गारभृङ्गारौ ॥ शॄभृञ्भ्यामारन्गुक् ह्रस्वश्च ॥ शृङ्गारो रसः । भृङ्गारः कनकालुका ॥ कञ्जिमृजिभ्यां चित् ॥ कञ्जिः सौत्रो धातुः । कञ्जारो मयूरः मार्जारः ॥ कमेः किदुच्चोपधायाः ॥ चिदित्यनुवृत्तेरन्तोदात्तः ॥ कुमारः ॥ तुषारादयश्च ॥ तुषारः । कासारः । सहार आम्रभेदः ॥ दीङो नुट् च ॥ दीनारः सुवर्णाभरणम् ॥ सृतेरपः षुक् च ॥ सर्षपः ॥ उषिकुटिदलिकचिखजिभ्यः कपन् ॥ उषपो वह्नि- सूर्ययोः । कुटपो मानभाण्डम् । दलपः प्रहरणम् । कचपं शाकपत्रम् । खजपं घृतम् । ऋणेः संप्रसारणं च ॥ कुणपम् ॥ कपश्चाक्ववर्णणस्य ॥ स्वरे भेदः ॥ विटपपिष्टप- विशिपोलपाः ॥ चत्वारोऽमी कपन्प्रत्ययान्ताः ॥ विट शब्दे । विटपः । विशतेरादेः पः । प्रत्ययस्य तुट् । षत्वम् । पिष्टपं भुवनम् । विशतेः प्रत्ययादेरित्त्वम् । विशिपं मन्दिरम् । वलतेः संप्रसारणम् । उलपं कोमलं तृणम् ॥ वृतेस्तिकन् ॥ वर्तिका ॥ कृतिमृदिलितिभ्यः कित् ॥ कृत्तिका । मृत्तिका मृत्तिः । लत्तिका गोधा ॥ इष्यशिभ्यां तकन् ॥ इष्टका । अष्टका ॥ इणस्तशनूतशशुनौ ॥ एतशो ब्राह्मणः । स एव एतशाः ॥ वीप- तिभ्यां तनन् ॥ वी गत्यादौ । वेतनम् । पत्तनम् ॥ दृदलिभ्यां भः ॥ दर्भः । दलभः स्यादृषिचक्रयोः ॥ अर्त्तिगृभ्यां भन् ॥ अर्मः । गर्भः ॥ इणः कित् ॥ इमः ॥ असिसञ्जिभ्यां किथन् ॥ अस्थि । सक्थि ॥ प्लुषिकुषिशुषिभ्यः क्सिः ॥ प्लुक्षि- र्वह्निः । कुक्षिः । शुक्षिर्वातः ॥ अशोर्नित् ॥ अक्षि ॥ इषेः क्सुः ॥ इक्षुः ॥ अवि- तॄस्तृतन्त्रिभ्यः ईः ॥ अवीनारी रजस्वला । तरीर्नौः । स्तरीर्धूमः । तन्त्रीर्वीणादेर्गुणः ॥ प्यापोः किद्वे च ॥ ययीरश्वः । पपीः स्यात्सोमसूर्ययोः ॥ लक्षेर्मुद् च ॥ लक्ष्मीः ॥ ॥ इत्युणादिषु तृतीयः पादः ॥ अथोणादिषु चतुर्थः पादः । वातप्रमीः ॥ वातशब्दे उपपदे प्रपूर्वान्माधातोरीप्रत्ययः स च कित् ॥ वातप्रमीः । अयं स्त्रीपुंसयोः ॥ ऋतन्यञ्जिवन्यञ्ज्यर्पिमद्यत्यङ्गिकुयुक्शिभ्यः कत्निच्यतुजलजि- ष्ठुजिष्ठजिसन्स्यनिथिनुल्यसासानुकः ॥ द्वादशभ्यः क्रमात्स्युः ॥ अर्तेः कत्निच् यण् । बद्धमुष्टिः करो रत्निः सोऽरत्निः प्रसृताङ्गुलिः । तनोतेर्यतुच् । तन्यतुर्वायुः रात्रिश्च । अञ्जेरलच् अञ्जलिः । वनेरिष्ठुच् । वनिष्ठुः स्थविरान्त्रम् । अञ्जेरिष्ठच् । अञ्जिष्ठो भानुः । अर्पयतेरिसन् । अर्पिसोऽप्रमांसम् । मदेः स्यन् । मत्स्यः । अतेरिथिन् । अतिथिः । अङ्गेर्नुलिः । अङ्गुलिः । कौतेरसः । कवसः । अच इत्येके । कवचम् । यौते-