वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 521, कुल 835 में से
संदर्भ में पढ़ेंHere is the complete line-by-line transcription of the page:
डिँच्च ॥ विः पक्षी । स्त्रियां वीत्यपि ॥ प्रे हरतेः कूपे ॥ प्रहिः कूपः ॥ नौ व्यो यलोपः पूर्वस्य च दीर्घः ॥ व्येञ् इन् स्याद् यलोपश्च नेर्दीर्घः ॥ नीविः । नीर्वी । वस्त्रग्रन्थौ मूलधने च ॥ समाने ख्यः स चोदात्तः ॥ समानशब्दे उपपदे ख्या इत्य- स्मादिण् स्यात्स च डित् यलोपश्च । समानस्य तूदात्तः स इत्यादेशश्च ॥ समानं ख्यायते जनैरिति सखा ॥ आङि श्रिहनिभ्यां ह्रस्वश्च ॥ इण् स्यात्स च डित् आङो ह्रस्वश्च ॥ स्त्रियः पाल्यश्रिकोटयः । सर्पे वृत्रासुरेऽप्यहिः ॥ अच इः ॥ रविः । पविः । तरिः । कविः । अरिः । अलिः ॥ खनिकष्यज्यसिवसिवनिसनिध्वनिग्रन्थिचलिभ्यश्च ॥ खनिः । कषिर्हिंस्रः । अजिः । असिः । वसिर्वस्त्रम् । वनिरग्निः । सनिर्भक्तिर्दानं च ।