वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 523, कुल 835 में से
संदर्भ में पढ़ेंनभः ॥ इण आगोऽपराधे च ॥ आगः पापापराधयोः ॥ अमेर्डुक्च ॥ अंहः ॥ रमेश्च ॥ रंहः ॥ देशे ह च ॥ रमन्तेऽस्मिन् रहः ॥ अञ्च्यञ्जिभ्युजिभृजिभ्यः कुश्च ॥ एभ्योऽसुन् कवर्गश्चान्तादेशः ॥ अङ्कश्चिह्नशरीरयोः । अङ्गः पक्षी । योगः समाधिः । भर्गस्तेजः ॥ भूरञ्जिभ्यां कित् ॥ भुवः । रजः ॥ वसेर्णिन् ॥ वान्तो वस्त्रम् ॥ चन्देरादेश्च छः ॥ छन्दः ॥ पचिवचिभ्यां सुट् च ॥ पक्षसी तु स्मृतौ पक्षौ । वक्षो हृदयम् ॥ वडिहाधाञ्भ्यश्छन्दसि ॥ वक्षाः अनड्वान् । हासाश्चन्द्रः । धात्राः पर्वत इति प्राञ्चः । वस्तुतस्तु णिदित्यनुवर्तते न तु सुट् । तेन वहेरुपधावृद्धिः । इतरयो- रातो युगिति युक् । शोणा धृष्णू नृवाहसा । श्रोता हवं गृणतः स्तोमवाहाः । विश्वो वि- हायाः । वाजम्भरो विहायाः । देवो नयः पृथिवीं विश्वाधायाः । अधारयत् पृथिवीं विश्व- धायसम् । घर्णसिं भूरिधायसमित्यादि ॥ इण आसिः ॥ अयाः वह्निः । स्वरादिपाठादव्य- यत्वम् ॥ मिथुनोऽसिः ॥ पूर्ववच्च सर्वम् ॥ उपसर्गविशिष्टो धातुर्मिथुनं तत्रासुनोऽप- वादोऽसिः स्वरार्थः ॥ नञि हन एह च ॥ अनेहाः । अनेहसौ ॥ विधाञो वेध च ॥ विदधातीति वेधाः ॥ नुवो धुद् च ॥ नोधाः ॥ गतिकारकोपपदयोः पूर्व- पदप्रकृतिस्वरत्वं च ॥ असिः स्यात् ॥ सुतपाः । जातवेदाः । गतिकारकोपपदात् कृदि- त्युत्तरपदप्रकृतिस्वरत्वे सति शेषस्यानुदात्तत्वे प्राप्ते तदपवादार्थमिदम् ॥ चन्द्रे मो डित् ॥ चन्द्रोपपदान्माडोऽसिः स्यात्स च डित् ॥ चन्द्रमाः ॥ वयसि धाञः ॥ वयोधास्तरुणः ॥ पयसि च ॥ पयोधाः समुद्रो मेघश्च ॥ पुरसि च ॥ पुरोधाः ॥ पुरूरवाः ॥ पुरुश- ब्दस्य दीर्घो रौतेरसिंश्च निपात्यते ॥ चक्षेर्बहुलं शिच्च ॥ नृचक्षाः ॥ उषः कित् ॥ उषः ॥ दमेरुनसिः ॥ सप्तार्चिर्दमूनाः ॥ अङ्गेतेरसिंरुडागमश्च ॥ अङ्गिराः ॥ सर्त्तेरपूर्वादासः ॥ अप्सराः ॥ प्रायेणायं भूम्नि । अप्सरसः ॥ विदिभृजिभ्यां विश्वे ॥ विश्ववेदाः । विश्वमोजाः ॥ वशेः कनासिः ॥ संप्रसारणम् । उशनाः ॥ ॥ इत्युणादिषु चतुर्थः पादः ॥ अथोणादिषु पञ्चमः पादः । अदि भुवो डुतच् ॥ अद्भुतम् ॥ गुधेरूमः ॥ गोधूमः ॥ मसेरूरन् ॥ मसूरः । प्रथमे पादे असेरूरन्मसेश्चेत्यत्र व्याख्यातः ॥ स्थः किच्च ॥ स्थूरो मनुष्यः ॥ पाते- रतिः ॥ पातिः स्वामी । संपातिः पक्षिराजः ॥ वातोर्निँत् ॥ वातिरादित्यसोमयोः ॥ अर्तैश्च ॥ अरतिरुद्वेगः ॥ तृहेः क्तो हलोपश्च ॥ तृणम् ॥ वृञ्लुटितनिताडिभ्य उलच् तण्डश्च ॥ व्रियन्ते लुट्यन्ते तन्यन्ते ताड्यन्त इति वा तण्डुलाः ॥ दंसेष्टट्नौ न आ च ॥ दासः सेवकशूद्रयोः ॥ दंशेश्च ॥ दाशो धीवरः ॥ उदि चेदँसिः ॥ स्वरादिपाठादव्ययत्वम् ॥ उच्चैः ॥ ना दीर्घश्च ॥ नीचैः ॥ सौ रमेः क्तो दमे पूर्व-