वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 524, कुल 835 में से
संदर्भ में पढ़ें( ४७४ ) सिद्धान्तकौमुद्याम्- पदस्य च दीर्घः॥ रमेः सुपूर्वाद्देमे वाच्ये क्तः स्यात्॥ कित्त्वादनुनासिकलोपः। सूरतः उपशान्तो दयालुश्च॥ पूञो षण्णुक् ह्रस्वश्च॥ यत्प्रत्ययः॥ पुण्यम्॥ संसेः शिः कुट् किञ्च॥ संसतेः शिरादेशः यत्प्रत्ययः कित्तस्य कुडागमश्च॥ शिक्यम्॥ अर्तेः क्युरुच्च॥ उरणो मेषः॥ हिंसेरीरन्नीरचौ॥ हिंसीरो व्याघ्रदुष्टयोः॥ उदि दृणा- तेरजलौ पूर्वपदान्त्यलोपश्च॥ उदरम्॥ डित् खनेर्मुद् स चोदात्तः॥ अच् अल् च डित्स्याद्धातोर्मुद् स चोदात्तः॥ मुखम्॥ अमेः सन्॥ अंसः॥ मुहेः खो मूर्च्च॥ मूर्खः॥ नहेर्हलोपश्च॥ नखः॥ शीङो ह्रस्वश्च॥ शिखा॥ माङ ऊखो मयू च॥ मयूखः॥ कलिगलिभ्यां फगस्योच्च॥ कुल्फः शरीरावयवो रोगश्च। गुल्फः पादग्रन्थिः॥ स्पशेः श्वण्शुनौ पृ च॥ श्वण्शुनौ प्रत्ययौ पृ इत्यादेशः॥ पार्श्वोऽस्त्री कक्षयोरधः। पर्शुरायुधम्॥ इमनि श्श्रपतेर्डुन्॥ श्मनुशब्दो मुखवाची॥ मुखमाश्रयति इति श्मश्रु॥ अश्वादयश्च॥ अश्रु नयनजलम्॥ जनेष्टन् लोपश्च॥ जटा॥ अच् तस्य जङ्गा च॥ तस्य जनेः जङ्घादेशः स्यादच्॥ जङ्घा॥ हन्तेः शरी- रावयवे द्वे च॥ जवनम्। पश्चान्नितम्बः स्त्रीकट्याः क्लीबे तु जघनं पुरः॥ क्लेशेरन् लो लोपश्च॥ लकारस्य लोपः॥ केशः॥ फलेरितजादेश्च पः॥ पलितम्॥ कृञा- दिभ्यः संज्ञायां वुनू॥ करकः। करका। कटकः। नरकम्। नरकः। नरको नारकोऽपि चेति द्विरूपकोशः। सरकं गमनम्। कोरकः कोरकं च॥ चीकयतेराद्यन्तविपर्ययश्च॥ कीचको वंशभेदः॥ पचिमच्योरिचोपधायाः॥ पेचकः। मेचकः॥ जनेररष्ट च॥ जठरम्॥ वचिमनिभ्यां चिच्च॥ वठरो मूर्खः। मठरो मुनिशौण्डयोः। बिदा- दित्वान्माठरः। गर्गादित्वान्माठर्यः॥ ऊर्जि दृणातेरलचौ पूर्वपदान्त्यलोपश्च॥ ऊर्द्दरः शूररक्षसोः॥ कृदरादयश्च॥ कुदरः कुसूलः। मृदरं विलसत्। सूदरः सर्पः॥ हन्तेर्युन्नाद्यन्तयोर्घत्वत्वत्वे॥ घातनो मारकः॥ क्रमिगमिभ्यान्तुन् वृ- द्विश्च॥ क्रान्तुः पक्षी। गान्तुः पथिकः। क्षान्तुर्मशकः॥ हर्यतेः कन्यन् हिरच्॥ कन्यन् प्रत्ययः॥ हिरण्यम्॥ कृञः पासः॥ कर्पासः। बिल्वादित्वात्कार्पासं वस्त्रम्॥ जनेस्तु रश्च॥ जर्तुर्हस्ती योनिश्च॥ ऊर्णोतेर्डः॥ ऊर्णा॥ दधातेर्यत् वुट् च॥ धान्यम्॥ जीर्यतेः क्रिन् रश्च वः॥ जिव्रिः स्यात्कल्पक्षिणोः। बाहुलकाद्धलि चेति दीर्घो न॥ मव्यतेर्यलोपो मश्चापतुडालः॥ मव्यतेरालप्रत्ययः स्यात्तस्यापतुडागमो धातोर्यलोपो मकारश्चान्त्यस्य॥ समापतालों विषये॥ ऋजेः कीकन्॥ ऋजीक इन्द्रो धूमश्च॥ तनोतेर्डउः सन्वच्च॥ तितउः पुंसि क्लीवे च॥ अर्भकपृथुकपाका वयसि॥ ऋधु वृद्धौ। अतो वुन्। भकारश्चान्तादेशः। प्रथः कुकन्संप्रसारणं च पिबतेः कन्॥ अवद्यावमाधमार्बरफाः॥ कुत्सिते वदेर्नेति यत्। अवद्यम्। अवतेरमः। १ शीङो ह्रस्वश्चेति। ह्रस्वविधानसामर्थ्याद् गुणाभावः॥ इति पञ्चमः पादः॥