वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 528, कुल 835 में से
संदर्भ में पढ़ें( ४७८ ) सिद्धान्तकौमुद्याम्- जाराः ॥ इङश्च । ३ । ३।२१॥ घञ् ॥ अचोऽपवादः ॥ उपेत्य अस्मादधीयते उपाध्यायः ॥ अपादाने स्त्रियामुपसंख्यानं तदन्ताच्च वा ङीष् * ॥ उपाध्याया । उपाध्यायी ॥ शॄ वायु- वर्णनिवृतेषु * ॥ शॄ इत्यविभक्तिको निर्देशः ॥ शरो वायुः । करणे घञ् । शारो वर्णः । चित्रीकरणमिह धात्वर्थः । निव्रियते आश्रियतेऽनेनेति निवृत्तमावरणम् । बाहुलकात्करणे क्तः । 'गौरिवाकृतनीशारः प्रायेण शिशिरे कृशः' । अकृतप्रावरण इत्यर्थः ॥ उपसर्गे रुवः ।३।३।२२ ॥ घञ् ॥ संरावः । उपसर्गे किम् ? रवः ॥ अभिनिसः स्तनः शब्दसंज्ञा- याम् । ८ । ३ । ८६ ॥ अस्मात् स्तनेः सस्य मूर्धन्यः ॥ अभिनिष्टानो वर्णः । शब्दसंज्ञायां किम् ? अभिनिस्तनति मृदङ्गः ॥ समि युद्रुदुवः । ३ । ३ । २३ ॥ संयूयते मिश्रीक्रियते गुडादिभिरिति संयावः । पिष्टविकारोऽपूपविशेषः । संद्रावः । संदावः ॥ श्रिणीभुवोऽनुप- सर्गे । ३ । ३ । २४ ॥ श्रायः । नायः । भावः । अनुपसर्गे किम् ? प्रश्रयः । प्रणयः । प्रभवः । कथं 'प्रभावो राज्ञ इति । प्रकृष्टो भाव इति प्रादिसमासः । कथं 'राज्ञो नय इति । बाहुलकात् ॥ वौ क्षुश्रुवः । ३ । ३। २५ ॥ विक्षवः । विश्रावः । वौ किम् ? क्षवः । श्रवः ॥ अवोदोर्नियः । ३ । ३ । २६ ॥ अवनायः अधोनयनम् । उन्नायः ऊर्ध्वनयनम् । कथमुन्नय * उत्प्रेक्षेति । बाहुलकात् ॥ प्रे द्रुस्तुस्रुवः । ३ । ३।२७ ॥ प्रद्रावः । प्रस्तावः । प्रस्त्रावः । प्रे इति किम् ? द्रवः । स्तवः । स्रवः । निरँभ्योः पूल्वोः । ३ । ३ । २८ ॥ निष्पूयते शूर्पादिभिरिति निष्पावो धान्यविशेषः । अभिलावः । निरभ्योः किम् ? पवः । लवः ॥ उन्न्योर्गृः । ३।३।२९॥ उद्गारः । निगारः । उन्न्योः किम् ? गरः ॥ कृ धान्ये ।३।३। ३० ॥ कृ इत्यस्माद्धान्यविषयकादुन्न्योर्घञ् स्यात् ॥ उत्कारः । निकारः । धान्यस्य विक्षेप इत्यर्थः । धान्ये किम् ? भिक्षोत्करः । पुष्पविकरः ॥ यज्ञे समि स्तुवः । ३ । ३ । ३१ ॥ समेत्य स्तुवन्ति यस्मिन् देशे छन्दोगाः स देशः संस्तावः । यज्ञे किम् ? संस्तवः परिचयः ॥ प्रे स्त्रोऽयज्ञे ।३।३।३२ ॥ अयज्ञे इति छेदः । यज्ञे इति प्रकृतत्वात् । प्रस्तारः । अयज्ञे किम् ? बर्हिषः प्रस्तरो मुष्टिविशेषः ॥ प्रथने वावशब्दे । ३ । ३ । ३३ ॥ विपूर्वात् स्तॄणा- तेर्घञ् स्यादशब्दविषये प्रथने । पटस्य विस्तारः । प्रथने किम् ? तृणँविस्तरः । अशब्दे किम् ? ग्रन्थविस्तरः ॥ छन्दोनाम्नि च । ३ । ३ । ३४ ॥ स्त्र इत्यनुवर्तते । विष्टारपङ्क्ति- १ इङश्चेति । अकर्त्तरि कारके इङो घञ् । प्रकृत्याश्रयस्य "एरच्" इत्यच एव बाधकः ॥ उपेत्येति । गुरु समीपं गत्वेत्यर्थः ॥ २ अपादान इति । क्तिन्बाधनायेदम् ॥ * "उन्नय" इत्यस्य पर्याय उत्प्रेक्षेति ॥ ३ निरभ्योः पूल्वोरिति । अप्प्रत्ययस्यापवादोऽयं घञ् कर्मणि विधीयते ॥ ४ यज्ञे समीति । अधिक- रणे ल्युडपवादोऽयं घञ् । यज्ञविषयकेऽर्थे वर्तमानात् स्तुव इत्यर्थः ॥ ५ प्रस्तार इति । शंखमण्यादिरिति शेषः ॥ ६ प्रथन इति । प्रथनमिह विस्तीर्णता । सा चेह तिर्यगायतिरूपा ॥ ७ तृणविस्तर इति । आच्छादानमात्रमिह धात्वर्थः । ग्रन्थविस्तर इति । अत्र स्तृधातुर्विस्तीर्णताया एव बोधकः ॥ ८ छन्दोनाम्नीति । समुदायेन छन्दोनाम्नि विवक्षिते स्तृणातेर्घञ् । वृत्तमहि छन्दःशब्दार्थः । शब्दविषय- त्वात् पूर्वसूत्रस्येहाप्राप्तिः ॥