भारतकोश
वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary

भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा

DevanagariHindipublished835 पृष्ठ

पृष्ठ 529, कुल 835 में से

संदर्भ में पढ़ें
पृष्ठ 529

उत्तरकृदन्तप्रकरणम्। ( ४७९ ) च्छन्दः । विस्तीर्यन्तेऽस्मिन्नक्षराणीत्यधिकरणे घञ् । ततः कर्मधारयः ॥ छन्दोनाम्नि च ।८।३।९४ ॥ विपूर्वात् स्तृणातेर्घञन्तस्य सस्य षत्वं स्याच्छन्दोनाम्नि ॥ इति षत्वम् ॥ उदि ग्रहः । ३ । ३ । ३५ ॥ उद्ग्राहः ॥ समि मुष्टौ ।३।३।३६॥ मल्लस्य संग्राहः । मुष्टौ किम् ? द्रव्यस्य संग्रहः ॥ परिन्योर्नीणोर्द्यूताश्लेषयोः । ३ । ३ । ३७ ॥ परिपूर्वान्नयतेर्निवूर्वादि- णश्च घञ् स्यात् क्रमेण द्यूतेऽश्लेषे च विषये ॥ परिणायेन शारान् हन्ति । समन्तान्नयनेने- त्यर्थः । एषोऽत्र न्यायः । उचितमित्यर्थः । द्यूताश्लेषयोः किम् ? परिणयो विवाहः । न्ययो नाशः ॥ परावनुपात्यय इणः । ३।३।३८ ॥ क्रमप्राप्तस्य अनतिपातोऽनुपात्ययः । तव [