वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 541, कुल 835 में से
संदर्भ में पढ़ेंप्रतिषेधार्थयोरलंखल्वोरुपपदयोः क्त्वा स्यात् ॥ प्राचांग्रहणं पूजार्थम् । 'अमैवाव्ययेनेति निय- मान्नोपपदसमासः ॥ दोदद्घोः ॥ अलं दत्त्वा । घुमास्था । पीत्वा खलु ॥ अलंखल्वोः किम् ? मा कार्षीत् ॥ प्रतिषेधयोः किम् ? अलंकारः ॥ उदीचां माङो व्यतीहारे । ३ । ४ । १९ ॥ व्यतीहारेऽर्थे माङः क्त्वा स्यात् ॥ अपूर्वकालार्थमिदम् ॥ मयतेरिदन्यतरस्याम् । ६ । ४ । ७० ॥ मेङ इकारोऽन्तादेशः स्याद्वा ल्यपि ॥ अपमित्य याचते । अपमाय । उदीचां ग्रहणा- द्यथाप्राप्तमपि । याचित्वा अपमयते ॥ परावरयोगे च । ३ । ४ । २० ॥ परेण पूर्वस्यापरेण परस्य योगे गम्ये धातोः क्त्वा स्यात् ॥ अप्राप्य नदीं पर्वततः । परनदीयोगोऽत्र पर्वतस्य । अतिक्रम्य पर्वतं स्थिता नदी । अवरपर्वतयोगोऽत्र नद्याः ॥ समानकर्तृकयोः पूर्वकाले ।