वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 542, कुल 835 में से
संदर्भ में पढ़ेंवेश्चिलुञ्च्ऋतश्च । १।२।२४ ॥ सेट् क्त्वा किद्वा ॥ वचित्वा । वञ्चित्वा । लुचित्वा । लु- ञ्चित्वा । ऋतित्वा । अर्त्तित्वा ॥ तृषिमृषिकृशेः काश्यपस्य । १।२।२५ ॥ एभ्यः सेट् क्त्वा किद्वा ॥ तृषित्वा । तर्षित्वा । मृषित्वा । मर्षित्वा । कृशित्वा । कर्शित्वा । 'रलो व्युपधा- दिति वा कित्त्वम् । द्युतित्वा । द्योतित्वा । लिखित्वा । लेखित्वा । रलः किम् ? सेवित्वा । व्युप- धात्किम् ? वर्त्तित्वा । हलादेः किम् ? एषित्वा । सेट् किम् ? भुक्त्वा ॥ 'वसिक्षुधोरिट् । उषित्वा । क्षुधित्वा । क्षोधित्वा । 'अञ्चेः पूजायामिति नित्यमिट् । अञ्चित्वा । गतौ तु अक्त्वा- त्यपि ॥ लुभित्वा । लोभित्वा । 'लुभोऽविमोहने' इतीट् । विमोहने तु लुब्ध्वा ॥ जॄव्रश्च्योः क्त्वि । ७।२।५५ ॥ आभ्यां परस्य क्त्व इट् स्यात् ॥ जरित्वा । जरीत्वा । व्रश्चित्वा ॥ उदितो वा । ७ । २ । ५६ ॥ उदितः परस्य इद्वा ॥ शमित्वा । 'अनुनासिकस्य क्वीति दीर्घः । शान्त्वा । द्यूत्वा । देवित्वा ॥ क्रमश्च क्त्वि । ६ । ४ । १८ ॥ क्रम उपधाया वा दीर्घः स्यात् झलादौ क्त्वि परे ॥ क्रान्त्वा । क्रन्त्वा । झलि किम् ? क्रमित्वा । 'पूङश्चेति वेट् । पवित्वा । पूत्वा ॥ जान्तनशां विभाषा । ६ । ४ । ३२ ॥ जान्तानां नशेश्च नलोपो वा स्यात् क्त्वि परे ॥ भक्त्वा । भङ्क्त्वा । रक्त्वा । रङ्क्त्वा ॥ 'मस्जिनशोरिति नुम् । तस्य पक्षे लोपः । नष्ट्वा । नंष्ट्वा ॥ ' रधादिभ्यश्चेतीट् पक्षे । नशित्वा ॥ झलादाविति वाच्यम्* ॥ नेह । अञ्जित्वा । उदित्त्वाद्द्वेट् ॥ पक्षे । अक्त्वा । अङ्क्त्वा । ' जनसनेत्यात्त्वम् । खात्वा । खनित्वा ॥ 'द्यतिस्यतीति इत्त्वम् । दित्वा । सित्वा । मित्वा । स्थित्वा ॥ 'दधातेर्हिः' । हित्वा ॥ जहातेश्च क्त्वि । ७।४।४३ ॥ हित्वा । हाङ्स्तु-हात्वा । अदो जग्धिः । जग्ध्वा ॥ समासेऽनञ्पूर्वे क्त्वो ल्यप् । ७ । १ । ३७ ॥ अव्ययपूर्वपदे अनञ्समासे क्त्वो ल्यबा- देशः स्यात् ॥ तुक् । प्रकृत्य । अनञ् किम् ? अकृत्वा । पर्युदासाश्रयणान्नेह । परमकृत्या ॥ षत्वतुकोरसिद्धः । ६ । १ । ८६ ॥ ष्ट्वे तुकि च कर्तव्ये एकादेशशास्त्रमसिद्धं स्यात् ॥ कोसिचत् । इह षत्वं न । अधीत्य । प्रेत्य— 'ह्रस्वस्येति तुक् ॥ वा ल्यपि । ६।४।३८ ॥ अनुदात्तोपदेशानां वनतितनोत्यादीनामनुनासिकलोपो वा स्याल्ल्यपि ॥ व्यवस्थितविभाषेयम् । तेन मान्तानां वा नान्तानां वनादीनां च नित्यम् ॥ आगत्य । आगम्य । प्रणत्य । प्रणम्य । प्रहत्य । प्रमत्य । प्रवत्य । वितत्य । 'अदो जग्धिः । अन्तरङ्गानपि विधीन्बहिरङ्गो ल्यब्वाधते । जग्धिविधौ ल्यब्ग्रहणात् । तेन हित्त्वदत्त्वात्त्वेत्त्वदीर्घत्वश्यूटितो ल्यपि न । विधाय । प्रदाय । प्रखन्य । प्रस्थाय । प्रक्रम्य । आपृच्छय । प्रदीव्य । प्रपठ्य ॥ न ल्यपि १ वञ्चिलुञ्चेति । वञ्चधातोश्चित्त्वाद् “उदितो वा” इतीट्पक्षेऽनेन कित्त्वविकल्पः । ऋतधातोः क्त्वाप्रत्यये चिकीर्षिते “आयादयः-” इत्यनेन “ऋतेरीयङ्” इति विहितस्येयङ्प्रत्ययस्याभावेऽनेन विकल्पः ॥ २ तृषिमृषीति । “नोपधात्-” इत्यतो वाग्रहणानुवृत्त्यैव सिद्धे काश्यपग्रहणं पूजार्थम् ॥ ३ अञ्चुधातो- रुदित्त्वाद् “उदितो वा” इति विकल्पे प्राप्ते आह—अञ्चेः पूजायामिति नित्यमिति ॥ ४ समास इति । अनञ् इत्येव सिद्धे पूर्वग्रहणं स्पष्टार्थम् ॥ ५ कोसिचदिति । इह पूर्वरूपस्य परादिवद्भावेन “ओसिचत्” इत्यस्य पदत्वात् सकारस्य पदादित्वाभावादिनः परत्वात् षत्वे प्राप्तेऽसिद्धत्वम् ॥ ६ अधी- त्येति । यद्यपि पदान्तपदाद्योरेकादेशोऽसिद्धः । अत्र चोत्तरखण्डे सुबुत्पत्तेः पूर्वमेव समासस्तथापि तत्र पदशब्देनार्थवत एवोपलक्षणान्न दोषः । “गतिकारक-” इत्यस्यानित्यत्वात् सुबन्तेन वा समासः । शे० ना० ॥ ७ नान्तानितामिति । प्रयोगाभिप्रायेण बहुवचनम् ॥