वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 549, कुल 835 में से
संदर्भ में पढ़ेंणीव्यः । ब्रह्मणि वदेर्ण्यत् । ब्रह्मवाद्यम् । लोके तु वदः सुपि क्यप् चेति क्यप्स्यात्तौ । भवतेः स्तौतेश्च ण्यत् । भाव्यः । स्ताव्यः । उपपूर्वाच्चिनोतेर्ण्यत् आयादेशश्च पृडे उत्तरपदे । उपचा- य्यपृडम् ॥ हिरण्य इति वक्तव्यम् * ॥ उपचेयपृडमन्यत् । मृड सुखने । पृड चेत्यस्माद्विगुपधल- क्षणः कः ॥ छन्दसि वनसनरक्षिमथाम् । ३ । २ । २७ ॥ एभ्यः कर्मण्युपपदे इन् स्यात् ॥ ब्रह्मवनिं त्वा क्षत्रवनिम् ॥ उत नो गोषणिं धियन् । ये पथां पथि रक्षयः । चतुरक्षौ पथीरक्षी ! हविर्मथीनानभि ॥ छन्दसि सहः । ३ । २ । ६३ ॥ सुब्युपपदे सहेर्णि्वः स्यात् ॥ पृतनाषाट् ॥ वहश्च । ३ । २ । ६५ ॥ प्राग्वत् ॥ दित्यवाट् । योगविभाग उत्तरार्थः ॥ कव्यपुरीषपुरी- ष्येषु ण्युट् । ३ । २ । ६४ ॥ एषु वहेर्ण्युट् स्याच्छन्दसि ॥ कव्यवाहनः । पुरीषवाहनः । पुरीष्यवाहनः ॥ हव्येऽनन्तः पादम् । ३ । २ । ६६ ॥ अमिश्र हव्यवाहनः । पादमध्ये तु वहश्चेति ण्विरेव । हव्यवाळग्निरजरः पिता नः ॥ जनसनखनक्रमगमो विट् । ३ । २ । ६७ ॥ विड्वनोरित्यात्त्वम् । अब्जाः । गोजाः । गोषा इन्द्रो नृषा असि । सनोतेरन इति षत्वम् । इयं शुष्मेभिर्बिसखा इवारुजत् । आ दधिक्राः शवसा पञ्च कृष्टीः । अग्रेगाः ॥ मन्त्रे श्वेतवहोक्थशस्पुरोडाशो ण्विन् । ३ । २ । ७१ ॥ श्वेतवहादीनां डस्पदस्येति वक्तव्यम् * ॥ यत्र पदत्वं भावि तत्र ण्विनोऽपवादो डस्वक्तव्य इत्यर्थः ॥ श्वेतवाः । श्वेतवाहौ । श्वेतवाहः । उक्थानि उक्थैर्वा शंसति उक्थशा यजमानः । उक्थशासौ । उक्थशासः ॥ पुरो दाश्यते दीयते पुरोडाः ॥ अवे यजः । ३ । २ । ७२ ॥ अवयाः । अवयाजौ । अवयाजः ॥ अवयाः श्वेतवाः पुरोडाश्च । ८ । २ । ६७ ॥ एते सम्बुद्धौ कृतदीर्घा निपात्यन्ते ॥ चादु- क्थशाः ॥ विजुपे छन्दसि । ३ । २ । ७३ ॥ उपे उपपदे यजेर्विच् ॥ उपयट् ॥ आतो- मनिन्क्वनिब्वनिपश्च । ३ । २ । ७४ ॥ सुब्युपसर्गे चोपपदे आदन्तेभ्यो धातुभ्यश्छन्दसि विषये मनिनादयस्त्रयः प्रत्ययाः स्युः ॥ चाद्विच् । सुदामा । सुधीवा । सुपीवा । भूरिदावा । घृतपावा । विच् । कीलालपाः ॥ ब्रह्मभ्रूणवृत्रेषु क्विप् ॥ बहुलं छन्दसि । ३ । २ । ८८ ॥ उपपदान्तरेऽपि हन्तेर्बहुलं क्विप् स्यात् ॥ यो मातृहा पितृहा ॥ छन्दसि लिङ् । ३ । २ । १०५ ॥ भूतसामान्ये ॥ अहं द्यावापृथिवी आ ततान ॥ लिटः कानज्वा । ३ । २ । १०६ ॥ क्वसुश्च । ३ । २ । १०७ ॥ छन्दसि लिटः कानच्क्वसू वा स्तः ॥ चक्राणा वृष्णिम् । यो नो अग्ने अररिवां अघायुः ॥ णेश्छन्दसि । ३ । २ । १३७ ॥ ण्यन्ताद्धातोश्छन्दसि इष्णुच् स्या- त्तच्छीलादौ ॥ वीरुधः पारयिष्णवः ॥ भुवश्च । ३ । २ । १३८ ॥ अस्मात् केवलात्प्राग्वत् ॥ भविष्णुः ॥ छन्दसि परेच्छायां क्यच उपसंख्यानम् * ॥ क्याच्छन्दसि । ३ । २ । १७० ॥ उप्रत्ययः स्यात् ॥ अवायुः ॥ एरजधिकारे जवसौ छन्दसि वाच्यौ * ॥ जवे याभिर्यूनः । ऊर्वोर्मे जवः । देवस्य सवितुः सवे ॥ मन्त्रे वृषेषपचमनविदभूवीरा उदात्तः । ३ । २ । ९६ ॥ वृषादिभ्यः क्तिन् स्यात्स चोदात्तः ॥ वृष्टिर्दिवः । सुन्ममिष्टये । पचात्पक्तीरुत । इयं ते नव्यसी मतिः । वित्तिः । भूतिः । अग्न आ याहि वीतये । रातौ स्यामोभयासः ॥ छन्दसि गत्यर्थेभ्यः । ३ । ३ । १२९ ॥ ईषदादिषूपपदेषु गत्यर्थेभ्यो धातुभ्यश्छन्दसि युच्