वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 550, कुल 835 में से
संदर्भ में पढ़ें(४९८) सिद्धान्तकौमुद्याम्- यजेश्च करणे । २ । ३ । ६३ ॥ इह छन्दसि बहुलं षष्ठी ॥ घृतस्य घृतेन यजते ॥ बहुलं छन्दसि । २ । ४ । ३९ ॥ अदो घस्लादेशः स्यात् ॥ घस्तानूनम् । लुङि मन्त्रे घसेति च्लेर्लुक् । अङभावः । सग्धिंश्च मे ॥ हेमन्तशिशिरावहोरात्रे च छन्दसि । २ । ४ । २८ ॥ द्वन्द्वः पूर्ववल्लिङ्गः ॥ हेमन्तश्च शिशिरं च हेमन्तशिशिरौ । अहोरात्रे ॥ अदिप्रभृतिभ्यः शपः ॥ बहुलं छन्दसि । २ । ४ । ७३ ॥ वृत्रं हन्ति वृत्रहा । अहिः शयत उपपृक् । अत्र लुक् न । अदादिभिन्नेऽपि क्वचिल्लुक् । त्राध्वं नो देवाः ॥ जुहोत्यादिभ्यः श्लुः ॥ बहुलं छन्दसि । २ । ४ । ७६ ॥ दाति प्रियाणि चिद्धसु । अन्यत्रापि पूर्णा विवष्टि ॥ मन्त्रे घसह- रणश्वृदहाद्दृक्कूगमिजनिभ्यो लेः । २ । ४ । ८० ॥ एभ्यो लेर्लुक् स्यान्मन्त्रे ॥ अक्षन्- मीमदन्त हि । घस्लादेशस्य गमहनत्युपधालोपे शासिवसीति षः । माहर्म्मित्रस्य । धूर्तिः प्रण- ङ्मर्त्यस्य । नशेर्वेति कुत्वम् । सुरुचो वेन आवः । मान आ धक् । आदित्याकारान्तग्रह- णम् । आप्रा द्यावापृथिवी । परावर्गर्भरभृद्यथा । अक्रन्लुषासः । त्वे रयिं जागृवांसो अनुग्मन् । मन्त्रग्रहणं ब्राह्मणस्याप्युपलक्षणम् । अज्ञत वा अस्य दन्ताः । विभाषानुवृत्तेर्नेह । न ता अगृभ्णन्नजनिष्ट हिथ्रः ॥ ॥ इति द्वितीयोऽध्यायः ॥ अथ तृतीयोऽध्यायः । अभ्युत्सादयां प्रजनयां चकयां रमयामकः पावयांकियाद्विदामक्रन्निति छन्दसि । ३ । १ । ४२ ॥ आद्येषु चतुर्षु लुङि आम् अक इत्यनुप्रयोगश्च ॥ अभ्यु- त्सादयामकः । अभ्युदसीषददिति लोके । प्रजनयामकः । प्राजीजनदित्यर्थः । चिकंयामकः । अचैषीदित्यर्थे चिनोतेराम् । द्विर्वचनं कुत्वं च । रमयामकः । अरीरमत् । पावयांचक्रियात् । पावयादिति लोके । विदामक्रन् । अवेदिषुः ॥ गुपेश्छन्दसि । ३ । १ । ५० ॥ च्लेश्छङ्वा । जुहामजुगुपतं युवम् । अगौपामित्यर्थः ॥ नोनयतिध्वनयतयेलयत्यर्द्दयतिभ्यः । ३ । १ । ५१ ॥ च्लेश्छङ् न ॥ मा त्वायतो जरितुः काममूनयीः । मा त्वाग्निर्ध्वनयीत् ॥ कॄमृहृरु- हिभ्यश्छन्दसि । ३ । १ । ५९ ॥ च्लेरङ् वा ॥ इदं तेम्योकरं नमः । अमारत् । अदारत् । यत्सानोः सानुमारुहत् ॥ छन्दसि निष्कूर्यदेवहूयप्रणीयोन्नीयोच्छिष्यमर्यस्तर्या- ध्वर्यखन्यखानायदेव्यज्यापृच्छ्यप्रतिशीव्यब्रह्मवाद्यभाव्यस्ताव्द्योपचाय्यपृडानि । ३ । १ । १२३ ॥ कृन्ततेर्निस्पूर्वात् क्यपि प्राप्ते ण्यत् । आद्यन्तयोर्विपर्यासः निसः षत्वं च । निष्कूर्यं चिन्वीत पशुकामः । देवशब्दे उपपदे ह्वयतेर्जुहोतेर्वा क्यप् दीर्घश्च । स्पर्धन्ते वा उ देवहूये । प्र उद् आभ्यां नयतेः क्यप् । प्रणीयः । उन्नीयः । उत्पूर्वाच्छिषेः क्यप् । उच्छिष्यः । मृङ्स्तृञ्ध्वृभ्यो यत् । मर्यः । स्तर्या । स्त्रियामेवायम् । ध्वर्यः । खनेर्यत्ण्यतौ । खन्यः । खान्यः । यजेर्यः । शुन्धध्वं दैव्याय कर्मणे देवयज्यायै । आङ्पूर्वात्पृच्छेः क्यप् । आपृच्छ्यं धरुणं वाज्यार्यति । सीव्यतेः क्यप् षत्वं च । प्रति-