भारतकोश
वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary

भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा

DevanagariHindipublished835 पृष्ठ

पृष्ठ 557, कुल 835 में से

संदर्भ में पढ़ें
पृष्ठ 557

सारणं स्यात् ॥ इन्द्रमाहुव ऊतये ॥ ऋचि त्रेरुत्तरपदादिलोपश्च छन्दसि ॥ * ॥ ऋच्- शब्दे परे त्रेः संप्रसारणमुत्तरपदादेर्लोपश्चेति वक्तव्यम् ॥ तृचं सूक्तम् । छन्दसि किम् ? त्र्यृ- चानि ॥ रयेर्मतौबहुलम् * ॥ रेवान् । रयिमान् पुष्टिवर्धनः ॥ चायः की । ६ । १ । ३५ ॥ न्य१न्यं चिक्युर्न निचिक्युरन्यम् । लिटि उसि रूपम् । बहुलग्रहणानुवृत्तेर्नेह । अग्निं ज्योति- र्निचाय्य ॥ अपस्पृधेथामानृचुरानृहुश्चिच्युषेतित्याजश्राताश्रितमाशीराशीर्ताः । ६ । १ । ३६ ॥ एते छन्दसि निपात्यन्ते ॥ इन्द्रश्च विष्णो यदपस्पृधेथाम् । स्पर्धेर्लङि आथाम् । अर्कमानृचुः । वसून्द्यानृहुः । अर्चेरर्हेश्च लिट्युसि । चिच्युषे । च्युङो लिटि थासि । यस्तित्याज । त्यजेर्णलि । श्रातास्त इन्द्र सोमाः । श्रिता नो ग्रहाः ॥ श्रीञ् पाके निष्ठायाम् । आशीरं दुहे । मध्यत आशीर्तः । श्रीञ् एव क्विपि निष्ठायां च ॥ खिविदेश्छ- न्दसि । ६ । १ । ५२ ॥ खिद दैन्ये । अस्यैच आ स्यात् ॥ चिखाद । चिखेदेत्यर्थः ॥ शीर्ष- ञ्छन्दसि । ६। १। ६० ॥ शिरःशब्दस्य शीर्षन् स्यात् ॥ शीर्ष्णः । शीर्ष्णो जगतः ॥ वा छ- न्दसि । ६। १। १०६ ॥ दीर्घाज्जसि इचि च पूर्वसवर्णदीर्घो वा स्यात् ॥ वाराही । वाराह्यौ । मानुषीरीळते विशः । उत्तरसूत्रद्वयेपीदं वाक्यभेदेन संबध्यते । तेनामि पूर्वत्वं वा स्यात् । शमीं च । शम्यं च । सूम्यं सुषिरमिव । संप्रसारणाच्चेति पूर्वरूपमपि वा । इज्यमानः । यज्यमानः ॥ शेश्छन्दसि बहुलम् । ६। १। ७० ॥ लोपः स्यात् ॥ याते गात्राणाम् । ता ता पिण्डानाम् ॥ एमन्नादिषु छन्दसि पररूपं वक्तव्यम् * ॥ अपांन्वेमन् । अपां त्वोद्मन् ॥ भय्यप्रवय्ये च छन्दसि । ६। १। ८३ ॥ विभेत्यस्मादिति भय्यः । वेतेः प्रवय्या इति स्त्रियामेव निपातनम् । प्रवेयमित्यन्यत्र । छन्दसि किम् ? भेयम् । प्रवेयम् ॥ हृद्गया उपसंख्यानम् * ॥ हृदे भवा हृद्गया आपः । भवे छन्दसि यत् ॥ प्रकृत्यान्तःपादमव्यपरे । ६ । १ । ११५ ॥ ऋक्पादमध्यस्थ एङ् प्रकृत्या स्यात् अति परे न तु वकारयकारपरेऽति ॥ उपप्रयन्तो अध्वरम् । सुजाते अश्वसूनृते । अन्तःपादं किम् ? १ऐतास एतेऽर्चन्ति । अव्यपरे किम् ? तेऽवदन् ॥ अव्यादवद्यादवक्रसुरव्रतायमवन्त्ववस्युषु च । ६ । १ । ११६ ॥ एषु व्यपरेऽप्यति एङ् प्रकृत्या ॥ वसुभिर्नो अव्यात् । मित्रमहो अवद्यात् । मा शिवासो अवक्रमुः । ते नो अव्रत । शतधारो अयं मणिः । ते नो अवन्तु । कुशिकासो अवस्यवः । यद्यपि बह्वृचैस्तेनोऽवन्तु । रथतूः । सोऽयमागाम् । तेऽरुणेभिरित्यादौ प्रकृतिभावो न क्रियते तथापि बाहुलकात्समाधे- यम् । प्रातिशाख्ये तु वाचनिक एवायमर्थः ॥ यजुष्युरः । ६ । १ । ११७ ॥ उरःशब्दः एङन्तोऽति प्रकृत्या यजुषि ॥ उरो अन्तरिक्षम् । यजुषि पादाभावादनन्तःपादार्थं वचनम् ॥ आपो जुषाणो वृष्णो वर्षिष्ठेऽम्बेऽम्बालेऽम्बिके पूर्वे । ६ । १ । ११८ ॥ यजुषि अति प्रकृत्या ॥ आपो अस्मान्मातरः । जुषाणो अभिरराज्यस्य । वृष्णो अंशुभ्याम् । वर्षिष्ठे अधि नाके । अम्बे अम्बाले अम्बिके । अस्मादेव वचनादम्बार्थेति ह्रस्वो न ॥ अङ्ग इत्यादौ च १ कयामती कुत एतास एतेऽर्चन्ति शुष्मं वृषणो वपूंषि ॥