भारतकोश
वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary

भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा

DevanagariHindipublished835 पृष्ठ

पृष्ठ 556, कुल 835 में से

संदर्भ में पढ़ें
पृष्ठ 556

मासाः । त्रिंशिनो मासाः ॥ विंशतेश्चेति वाच्यम् * ॥ विंशिनोऽङ्गिरसः ॥ युष्मदस्मदोः सादृश्ये वतुब्वाच्यः * ॥ त्वावतः पुरूरवसो । न त्वावां अन्यः । यज्ञं विप्रस्य मावतः ॥ छन्दसि च । ५ । १ । ६७ ॥ प्रातिपदिकमात्रात्तदर्हतीति यत् ॥ सादन्यं विद्धयम् ॥ वत्स- रान्ताच्छश्छन्दसि । ५ । १ । ९२ ॥ निर्वृत्तादिष्वर्थेषु ॥ इद्वत्सरीयः ॥ संपरिपूर्वात्ख च ।५।१।९१॥ चाच्छः॥संवत्सरीणः । संवत्सरीयः । परिवत्सरीणः ॥ परिवत्सरीयः ॥ छन्दसि घम् ।५।१।१०६ ॥ ऋतुशब्दात्तदस्य प्राप्तमित्यर्थे ॥ भाग ऋत्वियः ॥ उपसर्गाच्छन्दसि धात्वर्थे । ५ । १ । ११८ ॥ धात्वर्थविशिष्टे साधने वर्तमानात्स्वार्थे वतिः स्यात् ॥ यदुद्वतो निवतः । उद्गतान्निर्गतादित्यर्थः ॥ थट् च छन्दसि । ५ । २ । ५० ॥ तान्तादसंख्यादेः परस्य डटस्थ्यट् स्यान्मट् च ॥ पञ्चथम् । पञ्चमम् ॥ छन्दसि परिपन्थिपरिपरिणौ पर्यवस्थातरि ।५।२।८९ ॥ अपत्यं परिपन्थिनम् । मात्वा परिपरिणो विदन् ॥ बहुलं छन्दसि ।५।२।१२२ ॥ मत्वर्थे विनिः स्यात् ॥ छन्दोविन्प्रकरणेऽष्ट्रामेखलाद्वयोभयरु- जाहृदयानां दीर्घश्चेति वक्तव्यम् * ॥ इति दीर्घः ॥ मंहिष्ठमुभयाविनम् । शुनमष्ट्राव्यचरत् ॥ छन्दसीवनिपौ च वक्तव्यौ * ॥ ई । रथीरभूत् । सुमङ्गलीरियं वधूः । मघवानमीमहे ॥ तयोर्दाहींलौ च छन्दसि । ५ । ३ । २० ॥ इदन्तदोर्यथासंख्यं स्तः ॥ इदा हि व उपस्तु- तिम् । तर्हि ॥ था हेतौ च छन्दसि । ५ । ३ । २६ ॥ किमस्था स्याद्धेतौ प्रकारे च ॥ कथा ग्रामं न पृच्छसि । कथा दाशेम ॥ पश्च पश्चा च छन्दसि । ५ । ३ । ३३ ॥ अव- रस्य अस्तात्यर्थे निपातौ ॥ पश्च हि सः । नो ते पश्चा ॥ तुश्छन्दसि । ५।३।५९ ॥ तृज- न्तात्तृन्नन्ताच्च इष्ठनीयसुनौ स्तः ॥ आसुर्ति करिष्ठः । दोहीयसी धेनुः ॥ प्रत्नपूर्वविश्वेमा- त्थाल् छन्दसि । ५ । ३ । १११ ॥ इवार्थे ॥ तं प्रत्नथा पूर्वथा विश्वथेमथा ॥ अमु च छन्दसि । ५ । ४ । १२ ॥ किमेत्तिङ्व्ययघादित्येव ॥ प्र तं नय प्रतरम् ॥ वृकज्येष्ठाभ्यां तिल्तातिलौ च छन्दसि । ५ । ४ । ४१ ॥ स्वार्थे ॥ यो नो दुरेवो वृकतिः । ज्येष्ठतातिं बर्हिषदम् ॥ अनसन्तान्नपुंसकाच्छन्दसि । ५ । ४ । १०३ ॥ तत्पुरुषादच् स्यात्समा- सान्तः ॥ ब्रह्मसामं भवति । देवच्छन्दसानि ॥ बहुप्रजाश्छन्दसि । ५ । ४ । १२३ ॥ बहु- प्रजा निर्ऋतिमाविवेश ॥ छन्दसि च । ५ । ४ । १४२ ॥ दन्तस्य दतृशब्दः स्याद्बहुव्रीहौ ॥ उभयतोदतः प्रतिगृह्णाति ॥ ऋतश्छन्दसि । ५ । ४ । १५८ ॥ ऋदन्ताद्बहुव्रीहेर्न कप् ॥ हता माता यस्य हतमाता ॥ इति पञ्चमोऽध्यायः । अथ षष्ठोऽध्यायः । एकाचो द्वे प्रथमस्य ॥ छन्दसि वेति वक्तव्यम् ॥ * ॥ यो जागार । दाति प्रियाणि ॥ तुजादीनां दीर्घोऽभ्यासस्य । ६ । १ । ७ ॥ तुजादिराकृतिगणः । प्रभरा तूतुजानः । सूर्ये मामहानम् । दाधार यः पृथिवीम् । स तूताव ॥ बहुलं छन्दसि । ६ । १ । ३४ ॥ ह्वः संप्र-