भारतकोश
वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary

भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा

DevanagariHindipublished835 पृष्ठ

पृष्ठ 555, कुल 835 में से

संदर्भ में पढ़ें
पृष्ठ 555

वैदिकप्रकरणम् । (५०३)

र्थायि विश्वन् ॥ मायायामण् । ४ । ४ । १२४ ॥ आसुरी माया ॥ तद्वानासामुपधानो मन्त्र इतीष्टकासु लुक् च मतोः । ४ । ४ । १२५ ॥ वर्चस्वानुपधानो मन्त्र आसामिष्ट- कानां वर्चस्याः । ऋतव्याः ॥ अश्विमानण् । ४ । ४ । १२६ ॥ आश्विनीरुपदधाति ॥ वय- स्यासु मूर्ध्नो मतुप् । ४ । ४ । १२७ ॥ तद्वानासामिति सूत्रं सर्वमनुवर्तते ॥ मतोरिति पद- मावर्त्य पञ्चम्यन्तं बोध्यम् । मतुबन्तो यो मूर्धशब्दस्ततो मतुप्स्यात्प्रथमस्य मतोर्लुक्च वयः- शब्दवन्मन्त्रोपधेयास्विष्टकासु ॥ यस्मिन्मन्त्रे मूर्धवयःशब्दौ स्तस्तेनोपधेयासु । मूर्धन्वतीरुपद- धातीति प्रयोगः ॥ मत्वर्थे मासतन्वोः । ४ । ४ । १२८ ॥ नभोऽअस् तदस्मिन्नस्तीति नभस्यो मासः । ओजस्या तनूः ॥ मधोर्ज च । ४ । ४ । १२९ ॥ माधवः ।

वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध) · पृष्ठ 555, कुल 835 में से · BharatKosha