वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 554, कुल 835 में से
संदर्भ में पढ़ेंक्रियते । उत इत्यनुवृत्तेः । उवङादेशस्तु सौत्रः ॥ मुद्गलाच्छन्दसि लिच्च * ॥ ङीषो लित्त्वमानुक् चागमः ॥ लित्स्वरः ॥ रथीरभून्मुद्गलानी ॥ दीर्घजिह्वी च छन्दसि । ४ । १ । ५९ ॥ संयोगोपधत्वादप्राप्तौ ङीप् विधीयते ॥ आसुरी वै दीर्घजिह्वी देवानां यज्ञवाट् ॥ कद्रुकमण्डलवोश्छन्दसि । ४ । १ । ७१ ॥ ऊङ् स्यात् ॥ कद्रूश्च वै कमण्डलूः ॥ गुग्गुलुम- धुजतुपत्यालूनामिति वक्तव्यम् * ॥ गुग्गूलूः । मधूः । जतूः । पत्यालूः ॥ अव्ययात्त्यप् ॥ आविष्त्यस्योपसंख्यानं छन्दसि * ॥ आविष्ठ्यो वर्धते ॥ छन्दसि ठञ् । ४ । ३ । १९ ॥ वर्षाभ्यष्ठञोऽपवादः ॥ स्वरे भेदः । वार्षिकम् ॥ वसन्ताच्च । ४ । ३ । २० ॥ ठञ् स्यात् छन्दसि ॥ वासन्तिकम् ॥ हेमन्ताच्च । ४ । ३ । २१ ॥ छन्दसि ठञ् ॥ हैमन्तिकम् । योगविभाग उत्त- रार्थः ॥ शौनकादिभ्यश्छन्दसि । ४ । ३ । १०६ ॥ णिनिः प्रोक्तेऽर्थे ॥ छाणोरपवादः । शौनकेन प्रोक्तमधीयते शौनकिनः ॥ वाजसनेयिनः । छन्दसि किम् ? शौनकीया शिक्षा ॥ द्व्यचश्छन्दसि । ४ । ३ । १५० ॥ विकारे मयट् स्यात् ॥ शरमयं बर्हिः । यस्य पर्णमयी जुहूः ॥ नोत्वद्वर्ध्रबिल्वात् । ४ । ३ । १५१ ॥ उत्वान् उकारवान् । मौञ्जं शिक्यम् । वर्ध्रं चर्म तस्य विकारो वार्ध्री रज्जुः । बैल्वो यूपः ॥ सभाया यः ॥ ढश्छन्दसि । ४ । ४ । १०६ ॥ सभेयो युवा ॥ भवे छन्दसि । ४ । ४ । ११० ॥ सप्तम्यन्ताद्भवार्थे यत् ॥ मेध्याय च विद्यु- त्याय च । यथायथं शैषिकाणामणादीनां घादीनां चापवादोऽयं यत् । पक्षे तेऽपि भवन्ति । सर्वविधीनां छन्दसि वैकल्पिकत्वात् । तद्यथा मुञ्जवान्नाम पर्वतः । तत्र भवो मौञ्जवतः । सोमस्येव मौञ्जवतस्य भक्षः । आचतुर्थसमाप्तेश्छन्दोऽधिकारः ॥ पाथोनदीभ्यां डयण् । ४ । ४ । १११ ॥ तमु त्वा पाथ्यो वृषा । चन्नो दधीत नाद्यो गिरो मे । पाथसि भवः पाथ्यः । नद्यां भवो नाद्यः ॥ वेशन्तहिमवद्भ्यामण । ४ । ४ । ११२ ॥ भवे ॥ वैशन्तीभ्यः स्वाहा । हैमवतीभ्यः स्वाहा ॥ स्रोतसो विभाषा डचड्डचौ । ४ । ४ । ११३ ॥ पक्षे यत् ॥ डयङ्- डद्योस्तु स्वरे भेदः । स्रोतसि भवः स्रोत्यः । स्रोतस्यः ॥ सगर्भसयूथसनुताद्यन् । ४ । ४ । ११४ ॥ अनुभ्राता सगर्भ्यः । अनुसखा सयूथ्यः । यो नः सनुत्य उतवा जिवत्नुः । नुतिर्नुत्तम् । नपुंसके भावे क्तः । सगर्भादयस्त्रयोऽपि कर्मधारयाः । समानस्य छन्दसीति सः । ततो भवार्थे यन् । यतोऽपवादः ॥ तुग्राद्धन् । ४ । ४ । ११५ ॥ भवेऽर्थे ॥ पक्षे यदपि । आवः शर्म वृषभं तुग्र्यास्विति बहुचाः । तुग्रियास्विति शाखान्तरे । धनाकाशयज्वारिष्ठेषु तुग्र- शब्द इति वृत्तिः ॥ अग्राद्यत् । ४ । ४ । ११६ ॥ घच्छौ च । ४ । ४ । ११७ ॥ चाद्यत् ॥ अग्रे भवोऽग्र्यः । अग्रियः । अग्रीयः ॥ समुद्राभ्राद्धः । ४ । ४ । ११८ ॥ समुद्रिया अप्स- रसो मनीषिणम् । नानदतो अभ्रियस्येव घोषाः ॥ बर्हिषि दत्तम् । ४ । ४ । ११९ ॥ प्राग्विहिताद्यदित्येव ॥ बर्हिष्येषु निविधु प्रियेपु ॥ दूतस्य भागकर्मणी । ४ । ४ । १२० ॥ भागोऽंशः ॥ दूत्यम् ॥ रक्षोयातूनां हननी । ४ । ४ । १२१ ॥ या ते अग्ने रक्षस्या तनूः ॥ रेवतिजगतीहविष्याभ्यः प्रशस्ये । ४ । ४ । १२२ ॥ प्रशंसने यत्स्यात् ॥ रेवत्यादीनां प्रशंसनं रेवत्यम् । जगत्यम् । हविष्यन् ॥ असुरस्य स्वम् । ४ । ४ । १२३ ॥ असुर्य्यं देवेभि-