भारतकोश
वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary

भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा

DevanagariHindipublished835 पृष्ठ

पृष्ठ 553, कुल 835 में से

संदर्भ में पढ़ें
पृष्ठ 553

ङिति ङकारेण प्रत्याहारः । तेषां व्यत्ययो भेदतीत्यादिरुक्त एव ॥ लिङ्याशिष्यङ् । ३ । १ । ८६ ॥ आशीर्लिङि परे धातोरङ् स्याच्छन्दसि ॥ वच उम् । मन्त्रं वोचेमाग्नये ॥ दृशे- र्गवक्तव्यः * ॥ पितरं च दृशेयं मातरं च । अङि तु ऋदृशोऽङीति गुणः स्यात् ॥ छन्द- स्युभयथा । ३ । ४ । ११७ ॥ धात्वधिकारे उक्तः प्रत्ययः सार्वधातुकार्धधातुकमुभयसंज्ञः स्यात् ॥ वर्धन्तु त्वा सुष्टुतयः । वर्धयन्त्वित्यर्थः । आर्धधातुकत्वान्णिलोपः । विश्रुश्विरे । सार्वधातुकत्वात् श्नुः श्नुभावश्च । हुश्नुवोरिति यण् ॥ आदृगमहनजनः किकिनौ लिट् च । ३ । २ । १७१ ॥ आदन्तादृवर्णान्ताद्गमादेश्च किकिनौ स्तस्तौ च लिद्वत् ॥ वव्रिर्वृत्रम् । पपिः सोमम् । ददिर्गौः । जग्मिर्युवा । जघ्निर्वृत्रममित्रियम् । जञ्जिः । लिद्वद्भावादेव सिद्धे ऋच्छत्यृ- तामिति गुणबाधनार्थं कित्त्वम् । बहुलं छन्दसीत्युत्त्वम् । तनुरिः । जगुरिः ॥ तुमर्थे सेसेनसेअसेन्क्सेकसेनध्यैअध्यैन्कध्यैकध्यैन्शध्यैशध्यैन्तवैतवेङ् तवेनः । ३ । ४ । ९ ॥ से । वक्षे रायः । सेन् । ता वामेषे । असे । शरदो जीवसे नः । असेनित्याद्यु- दात्तः । क्से । प्रेषे । कसेन् । गवामिव श्रियसे । अध्यै । अध्यैन् । जठरं पृणध्यै । पक्षे आद्युदात्तम् । कध्यै कध्यैन् । आहुवध्यै । पक्षे नित्स्वरः । शध्यै । राधसः सह मादयध्यै । शध्यैन् । वायवे पिवध्यै । तवै । दातवा उ । तवेङ् । सूतवे । तवेन् । कर्तवे ॥ प्रयै रोहिष्यै अव्यथिष्य

वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध) · पृष्ठ 553, कुल 835 में से · BharatKosha