भारतकोश
वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary

भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा

DevanagariHindipublished835 पृष्ठ

पृष्ठ 552, कुल 835 में से

संदर्भ में पढ़ें
पृष्ठ 552

स्यात् ॥ खलोऽपवादः । सूपसदनोऽग्निः ॥ अन्येभ्योऽपि दृश्यते । ३ । ३।१३० ॥ गत्य- र्थेभ्यो येऽन्ये धातवस्तेभ्योऽपि छन्दसि युच् स्यात् ॥ सुवेदनामकण्वोद्रह्मणे गाम् ॥ छन्दसि लुङ्लङ्लिटः । ३ । ४ । ६ ॥ धात्वर्थानां संबन्धे सर्वकालेष्वेते वा स्युः ॥ पक्षे यथास्वं प्रत्ययाः । देवो देवेभिरागमत् । अत्र लोडर्थे लुङ् । इदं तेभ्योकरं नमः । लङ् । अग्निमद्य होतारमवृणीतायं यजमानः । लिट्, अद्य ममार । अद्य म्रियत इत्यर्थः ॥ लिङर्थे लेट् । ३।४।७ ॥ विध्यादौ हेतुहेतुमद्भावादौ च धातोर्लेट् स्याच्छन्दसि ॥ सिब्बहुलं लेटि । । ३।१।३४ ॥ इतश्च लोपः परस्मैपदेषु । ३ । ४।९७ ॥ लेटस्तिङामितो लोपो वा स्या- त्परस्मैपदेषु ॥ लेटोऽडाटौ । ३ । ४।९४ ॥ लेटः