वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 559, कुल 835 में से
संदर्भ में पढ़ेंछन्दस्युभयथा हि ते ॥ छन्दस्युभयथा । ६ । ४ । ५ ॥ नामि दीर्घो वा ॥ धाता धातॄणामिति बह्वृचः । तैत्तिरीयास्तु ह्रस्वमेव पठन्ति ॥ वा षपूर्वस्य निगमे । ६ । ४ । ९ ॥ षपूर्वस्याच उपधाया वा दीर्घोऽसंबुद्धौ सर्वनामस्थाने परे ॥ ऋभुक्षाणम् । ऋभुक्षणम् । निगमे किम् ? तक्षा । तक्षाणौ ॥ जनिता मन्त्रे ।६।४।५३ ॥ इडादौ तृचि णिलोपो निपात्यते ॥ यो नः पिता जनिता ॥ शमिता यजे ।६।४।५४ ॥ शमयितेत्यर्थः ॥ युप्लुवोर्दीर्घश्छन्दसि ।८।४। ५८ ॥ ल्यपीत्यनुवर्तते ॥ वियूय । विप्लूय ॥ आडजादीनाम् ॥ छन्दस्यापि दृश्यते ।६।४। ७३ ॥ अनजादीनामित्यर्थः ॥ आनट् । आवः ॥ न माङ्योगे ॥ बहुलं छन्दस्यमाङ्यो- गेऽपि ।६।४।७२ ॥ अडाटौ न स्तः ॥ माङ्योगेऽपि स्तः । जनिष्ठा