वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
DevanagariHindipublished835 पृष्ठ
पृष्ठ 560, कुल 835 में से
संदर्भ में पढ़ेंपृष्ठ 560
Here is the line-by-line transcription of the text into Devanagari Markdown:
( ५०८ ) सिद्धान्तकौमुद्याम्- स्वमोरद्ड् न ॥ वार्त्रघ्रमितरम् । छन्दसि किम् ? इतरत्काष्ठम् ॥ समासेऽनञ्पूर्वे क्त्वो ल्यप् ॥ क्त्वापि छन्दसि ।७।१। ३८ ॥ यजमानं परिधापयित्वा ॥ सुपां सुलुक्पूर्वसवर्णाच्छेयाडाड्यायाजालः ।७।१।३९ ॥ ऋजवः सन्तु पन्थाः । पन्थान इति प्राप्ते सुः । परमे व्योमन् । व्योमनि इति प्राप्ते ङेर्लुक् । धीती । मती । सुष्टुती । धीत्या मत्या सुष्टुत्येति प्राप्ते पूर्वसवर्णदीर्घः । या सुरथा रथीतमौभा देवा दिविस्पृशा । अश्विना । यौ सुरथौ दिविस्पृशावित्यादौ प्राप्ते आ । नताद्ब्राह्मणम् । नतमिति प्राप्ते आत् । यादेव विद्म ता त्वा । यमिति प्राप्ते । न युष्मे वाजबन्धवः । अस्मे इन्द्राबृहस्पती । युष्मासु अस्मभ्यमिति प्राप्ते शे । उरुया । धृष्णुया । उरुणा धृष्णुनेति प्राप्ते या । नाभा पृथिव्याः । नाभाविति प्राप्ते डा । ता अनुष्ठ्योच्यावयतात् । अनुष्ठानमनुष्ठा । व्यवस्थावदङ्क । आङो ड्या । साधुया साध्विति प्राप्ते याच् । वसन्ता यजेत । वसन्ते इति प्राप्ते आल् ॥ इयाडि- याजीकाराणामुपसंख्यानम् * ॥ उर्विया । दार्विया । उरुणा दारुणेति प्राप्ते इया । सुक्षे- त्रिया । सुक्षेत्रिणेति प्राप्ते डियाच् । दृतिं न शुष्कं सरसी शयानम् । ङेरीकार इत्याहुः । तत्रानुदात्ते पदे प्राप्ते व्यत्ययेनान्तोदात्तता । वस्तुतस्तु ङीषन्तात् ङेर्लुक् । ईकारादेशस्य तूदाहरणान्तरं मृग्यम् ॥ आड्यायारामुपसंख्यानम् * ॥ प्रवाहुत्रा सिसृतम् । बाहुनेति प्राप्ते आडादेशः । घेर्डितीति गुणः । स्वप्नया । स्वप्नेनेति प्राप्ते अयाच् । स नः सिन्धुमिव नावया । नावेति प्राप्ते आयार् । रित्स्वरः ॥ अमो मश् ।७।१।४० ॥ मिवादेशस्यामो मश् स्यात् ॥ अकार उच्चारणार्थः । शित्त्वात्सर्वादेशः । अस्तिसिच इति ईट् । वधीं वृत्रम् । अव- धिषमिति प्राप्ते ॥ लोपस्त आत्मनेपदेषु ।७।१।४१ ॥ छन्दसि ॥ देवा अदुह्र । अदुह्वतेति प्राप्ते । दक्षिणतः शये । शेते इति प्राप्ते । आत्मेति किम् ? उत्सं दुहन्ति ॥ ध्वमो ध्वात् ७।१।४२ ॥ अन्तरेषोष्माणं वारयध्वात् । वारयध्वमिति प्राप्ते ॥ यजध्वैनमिति च ७।१।४३ ॥ एनमित्यस्मिन्परे ध्वमोऽन्तलोपो निपात्यते ॥ यजध्वैनं प्रियमैधाः । वकारस्य यकारो निपात्यत इति वृत्तिकारोक्तिः प्रामादिकी ॥ तस्थ तात् ।७।१।४४ ॥ मध्यमपुरु- षबहुवचनस्य स्थाने तात्स्यात् ॥ गात्रमस्थानू॒नं कृणुतात् । कृणुतेति प्राप्ते । सूर्यं चक्षुर्गमय- तात् । गमयतेति प्राप्ते ॥ तप्तनतनथनाश्च ।७।१।४५ ॥ तस्येत्येव ॥ शृणोत ग्रावाणः । शृणुतेति प्राप्ते तप् । सुनोतन पचत ब्रह्मवाहसे । दधातन द्रविणं चित्रमस्मै । तनप् । मरुत- स्तज्जुजुष्टन । जुषध्वमिति प्राप्ते । व्यत्ययेन परस्मैपदं श्लुश्च । विश्वेदेवासो मरुतो यतिष्ठेन । यत्संख्याकाः स्थेत्यर्थः । यच्छब्दाच्छन्दसो डतिः । अस्तेस्तस्य थनादेशः ॥ इदन्तो मसि ।७।१।४६॥ मसीत्यविभक्तिको निर्देशः । इकार उच्चारणार्थः ॥ मस् इत्ययमिकार- रूपचरमावयवविशिष्टः स्यात् ॥ मस इगागमः स्यादिति यावत् । नमो भरन्त एमसि । त्वमस्माकं तव स्मसि । इमः स्मः इति प्राप्ते ॥ क्त्वो यक् ।७।१।४७ ॥ दिवं सुपर्णो
१ सुषामानित्वात् षत्वम् ॥