वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 561, कुल 835 में से
संदर्भ में पढ़ेंगत्वाय ॥ इष्टीनेमिति च ॥ ७ । १ । ४८ ॥ क्त्वाप्रत्ययस्य ईनम् अन्तादेशो निपात्यते ॥ इष्टींन् देवान् । दृष्ट्वा इति प्राप्ते ॥ स्नात्व्यादयश्च ॥ ७ । १ । ४९ ॥ आदि शब्दः प्रकारार्थः । आकारस्य ईकारो निपात्यते ॥ स्विन्नः स्नात्वी मलादिव । पीत्वी सोमस्य वावृधे । स्नात्वा पीत्वेति प्राप्ते ॥ आज्जसेरसुकू । ७ । १ । ५० ॥ अवर्णान्तादङ्गात्परस्य जसोऽसुक् स्यात् ॥ देवासः । ब्राह्मणासः ॥ श्रीग्रामण्योश्छन्दसि । ७ । १ । ५६ ॥ आमो नुद् ॥ श्रीणामुदारो धरुणो रयी- णाम् । सूत ग्रामणीनाम् ॥ गोः पादान्ते । ७ । १ । ५७ ॥ विश्वा हि त्वा गोपतिं शूर गोनाम् । पादान्ते किम् ? गवां शता पृक्षयामेषु । पादान्तेऽपि क्वचिन्न । छन्दसि सर्वे विधयो वैकल्पिकत्वात् । विराजं गोपतिं गवाम् ॥ छन्दस्यपि दृश्यते । ७ । १ । ७६ ॥ अस्थ्या-