वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
DevanagariHindipublished835 पृष्ठ
पृष्ठ 563, कुल 835 में से
संदर्भ में पढ़ेंपृष्ठ 563
येषां ते स्ववसस्तैः । तु इति सौत्रो धातुस्तस्मादसुन् । स्वं तवो येषां तैः स्ववद्भिः । समुप- द्विरजायतः । मिथुनेऽसिः । वसेः किच्चेत्यसिप्रत्यय इति हरदत्तः । पञ्चपादीरीत्या तु उपः किदिति प्राग्व्याख्यातम् ॥ न कवतेर्यङि ॥ कृपेश्छन्दसि । ७ । ४ । ६४ ॥ यङि अभ्या- सस्य चुत्वं न ॥ चरीकृप्यते ॥ दधर्तिदर्धर्तिदर्दधर्षी वोभूतूतेतिक्ते ऽलर्ष्या ऽऽपनीफण- त्संसनिष्यदत्करिक्रत्कनिक्रदद्भरिभ्रद्विध्वतोदविद्युतत्तरित्रतःसरीसृपतंवरिवृजन्मर्दृ- ज्याऽऽगनीगन्तीति च । ७ । ४ । ६५ ॥ एतेऽष्टादश निपात्यन्ते ॥ आद्यस्त्रयो धृञो धारयतेर्थाः । भवतेर्यङ्लुगन्तस्य गुणाभावः । तेन भाषायां तुत्रो बभ्यते । तिजेर्यङ्लुगन्तात्तङ् । इयर्