वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 564, कुल 835 में से
संदर्भ में पढ़ें(५१२) सिद्धान्तकौमुद्याम्- नसत्तमञ्जसा । निष्पत्तमस्य चरतः । असन्नं निष्षण्णमिति प्राप्ते । उन्देर्नञ्पूर्वस्य अनुत्तम् । प्रतूर्तमिति त्वरतेः तुर्वीत्वस्य वा । सूर्तमिति सृ इत्यस्य । गूर्तमिति गुरी इत्यस्य ॥ अम्न- रूध्र्वरित्युभयथा छन्दसि । ८ । २ । ७० ॥ रूर्वा रेफो वा । अम्न एव । अम्नरेव । ऊध एव । ऊधरेव । अव एव । अवरेव ॥ भुवश्च महाव्याहृतेः । ८ । २ । ७१ ॥ भुव- इति । भुवरिति ॥ ओमभ्यादाने । ८ । २ । ८७ ॥ ओमशब्दस्य प्लुतः स्यादारम्भे ॥ ओ- ३ म् अग्निमीळे पुरोहितम् । अभ्यादाने किम् ? ओमित्येकाक्षरम् ॥ ये यज्ञकर्मणि । ८।२।८८ ॥ ये ३ यजामहे । यजेति किम् ? ये यजामहे ॥ प्रणवष्टेः । ८ । २ । ८९ ॥ यज्ञकर्मणि टेरोमित्यादेशः स्यात् ॥ अपां रेतांसि जिन्वतो ३ म् । टेः किम् ? हलन्ते अ- न्त्यस्य मा भूत् ॥ याज्यान्तः । ८ । २ । ९० ॥ ये याज्या मन्त्रास्तेषामन्त्यस्य टेः प्लुतो यज्ञ- कर्मणि ॥ जिह्मामग्ने चकृषे हव्यवाहा ३ म् । अन्तः किम् ? याज्यानामृचां वाक्यसमुदायरू- पाणां प्रतिवाक्यं टेः स्यात् । सर्वान्तस्य चेष्यते ॥ ब्रूहिप्रैष्यश्रौषड्वौषडावहानामादेः । ८ । २ । ९१ ॥ एषामादेः प्लुतो यज्ञकर्मणि ॥ अग्नयेऽनुब्रू ३ हि । अग्नये सोम्यानि प्रै- ३ ष्य । अस्तु श्रौ ३ षट् । सोमस्याग्ने वीही वौ ३ षट् । अग्निमा ३ वह ॥ अग्नीध्रप्रै- षणे परस्य च । ८।२।९२ ॥ अग्नीधः प्रैषणे आदेः प्लुतस्तस्मात्परस्य च ॥ ओ ३ श्रा ३ वय ॥ विभाषा पृष्टप्रतिवचने हेः । ८ । २ । ९३ ॥ प्लुतः ॥ अकार्षीः कटम् । अकार्षं हि ३ । अकार्षं हि । पृष्टेति किम् ? कटं करिष्यति हि । हेः किम् ? कटं करोति ननु ॥ [L18