वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 57, कुल 835 में से
संदर्भ में पढ़ें(८) सिद्धान्तकौमुदी-
द्वित्वम् । तदिह धकारयकारयोर्द्वित्वविकल्पाच्चत्वारि रूपाणि एकधमेकयम् । द्विधं द्वियम् । द्वित्वमेकयम् । एकधं द्वियम् । सुद्ध्युपास्यः । मध्वरिः । धात्रंशः । लाकृतिः ॥ नादिन्या- क्रोशे पुत्रस्य । ८।४।४८ ॥ पुत्रशब्दस्य न द्वे स्त ओदिनीशब्दे परे आक्रोशे गम्यमाने । पुत्रादिनी त्वमसि पापे । आक्रोशे किम्? तत्त्वकथने द्विर्वचनं भवत्येव । पुत्रादिनी सर्पिणी ॥ तत्परे च² * ॥ पुत्रपुत्रादिनी त्वमसि पापे ॥ वा हंतजग्योः * ॥ पुत्रहती । पुत्रहती । पुत्र- जग्धी । पुत्रजग्धी ॥ त्रिप्रभृतिषु शाकटायनस्य । ८।४।५० ॥ त्र्यादिषु वर्णेषु संयुक्तेषु वा द्वित्वम् । इन्⁵द्रः । इन्द्रः । राष्ट्रम् । राष्ट्रम् ॥ सर्वत्र शाकल्यस्य । ८।४।५१ ॥ द्वित्वं न । अर्कः । ब्रह्म ॥ दीर्घादाचार्याणाम् । ८।४।५२ ॥ द्वित्वं न । दात्रम् । पात्रम् ॥ अचो रहाभ्यां द्वे । ८।४।४६ ॥ अचः पराभ्यां रेफहकाराभ्यां परस्य यरो द्वे वा स्तः । हर्य्यनुभवः । हर्य्यानुभवः । नह्य्यस्ति । नह्यस्ति ॥ हलो यमां यमि लोपः । ८।४।६४ ॥ हलः परस्य यमो लोपः स्याद्वा यमि । इति लोपपक्षे द्वित्वाभावपक्षे चैकयं रूपं तुल्यम् । लोपारम्भफलम् आदित्यो देवताऽस्येत्यादित्यं हविरित्यादौ । यमां यमीति यथासंख्यविज्ञानान्नेह माहात्म्यम् ॥ एचो- ऽयवायावः । ६।१।७८ ॥ एचः क्रमाद्⁸ अय् अव् आय् आव् एते स्युरचि ॥ तस्य लोपः । १।३।९ ॥ तस्येतो⁹ लोपः स्यात् । इति यवयोर्लोपो न । उच्चारणसामर्थ्यात् । एवं चेत्संज्ञापीह न भवति¹⁰ । हरये । विष्णवे । नायकः । पावकः ॥ वान्तो यि प्रत्यये । ६।१।७९ ॥ यैका¹¹- रदौ प्रत्यये परे ओदौतोरव् आव् एतौ स्तः । गोर्विकारो गव्यम् । गोपयसोर्यदिति यत् । नावा तार्यं नाव्यम् । नौवयोधर्मेत्यादिना यत् ॥ गोर्यूतौ¹² छन्दस्युपसंख्यानम् * ॥ अध्वपरि- माणे च¹⁴ * ॥ गव्युतिः । ऊतियूतीत्यादिना यूतिशब्दो¹³ निपातितः ॥ वान्तो इत्यत्र वकाराद्गोर्यू-
१ सूत्रे 'आदिनी' इति लुप्तसप्तम्यन्तमिति भावः ॥ आदिनीशब्दाव्यवहितपूर्वस्य पुत्रशब्दस्य अज्ब्यव- वहितपरो यो यर् तस्य द्वित्वं नेत्यर्थः ॥ पूर्वत्रासिद्धीयमद्विर्वचने' इति परिभाषया द्वित्वप्रकरणस्या- सिद्धत्वाभावबोधनेन, एकादेशस्य स्थानिवत्त्वेन एकदेशविकृतस्यानन्यत्वेन वा सर्वेटसिद्विरिति बोध्यम् ॥ २ तस्मात् पुत्रशब्दात् परः तत्पर इति समासेन पुत्रशब्दात्परे आदिनीशब्दे परे पुत्रशब्दसम्बन्ध्व्यज्यव्यव- हितपरस्य यरो न द्वित्वमित्येवार्थः ॥ 'आदिनी शब्दपरके' इत्यर्थे तु 'पुत्रपौत्रादिनी' 'पुत्रमांसादिनी' इत्य- त्रापि निषेधापत्तिः स्यात् ॥ ३ 'न पुत्रस्य द्वित्वम्' इति वर्तते ॥ ४ 'द्वित्वं न' इति वर्तते । विधिविकल्पनि- षेधविकल्पयोः फलेभेदाभावात् 'न' इति त्यक्तम् ॥ ५ 'न न्द्राः संयोगादयः' इति द्वित्वनिषेधस्तु 'अनन्तरस्य विधिर्वा प्रतिषेधो वा' इति षाष्ठद्वित्वस्यैवेति भावः ॥ ६ 'यरोऽनुनासिके' इत्यतः 'यरः' इति 'वा' इति वर्तते । 'तस्मादिति' इति परिभाषया पञ्चमीश्रुतिभ्यां 'पदस्य' इति द्विरुपतिष्ठते ॥ ७ काशिकासंमतपाठे 'झयो हः' इत्यतः 'अन्यतरस्याम्' इति भाष्यसंमतसूत्रपाठे 'वाऽवसाने' इत्यतः 'वा' इत्यनुवर्तते ॥ ८ 'शत्रुं मित्रं कलत्रं च जय रञ्जय भञ्जय' इत्यादौ लोकेपि क्रमेणैवान्वयदर्शनादत्रापि तथैवोचितमित्याह-क्रमा- दिति ॥ ९ 'तद्' शब्दार्थमेवाह-इत इति ॥ १० न भवतीति ॥ 'फलाभावात्' इति शेषः ॥ ११ 'य- स्मिन्विधिस्तदादावल्ग्रहणे' ॥ अल्ग्रहणे सप्तम्यन्ते विशेषणीभूते यो विधिर्विधीयते स तदादौ ज्ञेयः ॥ तद्- न्तविधेरपवाद एवायम् ॥ १२ भाषायामपि ॥ १३ 'वान्तो यि प्रत्यये' इत्यनेन गतार्थताशङ्कामपनयति यूतिशब्द इति ॥ १४ 'गव्यं नाव्यम्' इत्यत्र भसंज्ञया पदसंज्ञाया बाधाल्लोपस्याप्राप्तावपि 'गव्यूतिः' इत्यत्र 'लोपः शाकल्यस्य' इति 'हलि सर्वेषाम्' इति वा प्राप्तं लोपं वारयितुमाह-वान्त इत्यत्रेति ॥