वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 56, कुल 835 में से
संदर्भ में पढ़ेंअच्सन्धिप्रकरणम् । (७) १।१।५२ ॥ षष्ठीनिर्दिष्टस्यान्त्यस्याल आदेशः स्यात् ॥ ङिच्च ।१।१।५३॥ अयमप्यन्त्यस्यैव स्यात् । सर्वस्येत्यस्यापवादः ॥ आदेः परस्य । १।१।५४ ॥ परस्य यदिहितं तत्तस्यादेर्बोध्यम् । अलोऽन्त्यस्येत्यस्यापवादः ॥ अनेकाल् शित्सर्वस्य ।१।१।५५ ॥ स्पष्टम् । अलोऽन्त्यसू- त्रापवादः । अष्टाभ्य औशित्यादावादेः परस्येत्येतदपि परत्वादनेन बाध्यते ॥ स्वरितेनाधि- कारः ।१।३।११ ॥ स्वरितत्वयुक्तं शब्दस्वरूपमधिकृतं बोध्यम् ॥ *परनित्यान्तरङ्गापवादाना- मुत्तरोत्तरं बलीयः॥असिद्धं बहिरङ्गमन्तरङ्गे॥ अकृतव्यूहाः पाणिनीयाः॥ निमित्तं विनाशो- न्मुखं दृष्ट्वा तत्प्रयुक्तं कार्यं न कुर्वन्तीत्यर्थः ॥ इति परिभाषाप्रकरणम् ॥ अथाच्सन्धिप्रकरणम् ।