वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 570, कुल 835 में से
संदर्भ में पढ़ें( ५१८ ) सिद्धान्तकौमुद्याम्- ।६।१ । २१८ ॥ चङन्ते धातावुपोत्तममुदात्तं वा ॥ मा हि चीकरताम् । धात्वकार उदात्तः । पक्षान्तरे चङुदात्तः ॥ इति धातुस्वरप्रकरणम् । अथ प्रातिपदिकस्वरप्रकरणम् । कर्षाऽऽत्वतो घञोन्त उदात्तः । ६ । १ । १५९ ॥ कर्षतेर्धातोरकारवतश्च घञन्त- स्यान्त उदात्तः स्यात् ॥ कर्षः । शपा निर्देशात्तूदादेराद्युदात्त एव । कर्षः । पाकः ॥ उञ्छा- दीनां च । ६ । १ । १६० ॥ अन्त उदात्तः स्यात् ॥ उञ्छादिषु युगशब्दो घञन्तोऽगुणो निपात्यते कालविशेषे रथाद्यवयवे च । वैश्वानरः कुशिकैर्भियुगेयुगे । अन्यत्र । योगेयोगे तवस्तरम् । भक्षशब्दो घञन्तः । गावः सोमस्य प्रथमस्य भक्षः । उत्तमशश्वत्तमावपि । उदु- त्तमं वरुण । शश्वत्तममीळते ॥ चतुरः शसि ६ । १ । १६७ ॥ चतुरोऽन्त उदात्तः शसि परे ॥ चतुरः कल्पयन्तः । अचि र इति रादेशस्य पूर्वविधौ स्थानिवत्त्वान्नेह । चतस्रः पश्य । चतेरुरन् । नित्त्वादाद्युदात्तता ॥ झल्युपोत्तमम् । ६ । १ । १८०॥ षट्त्रिचतुर्भ्यो या झला- दिर्विभक्तिस्तदन्ते पदे उपोत्तममुदात्तं स्यात् ॥ अष्टाभिः । पञ्चभिः नवभिः । नवभिर्वाजैर्नवती च । सप्तम्यो जायमानः । आदशभिर्विश्वस्वतः । उपोत्तमं किम् ? आ षड्भिर्ह्वयमानः । विश्वे- दैवैस्त्रिभिः । झलि किम् ? नवानां नवतीनाम् ॥ विभाषा भाषायाम् । ६ । १ । १८१ ॥ उक्तविषये ॥ सर्वस्य सुपि । ६ । १ । १९१ ॥ सुपि परे सर्वशब्दस्यादिरुदात्तः स्यात् ॥ सर्वे नन्दन्ति यशसा ॥ ञ्नित्यादिर्नित्यम् ।६। १ । १९७ ॥ ञिदन्तस्य निदन्तस्य चादिरुदात्तः स्यात् ॥ यस्मिन्विश्वानि पौंस्या । पुंसः कर्मणि ब्राह्मणादित्वात् ष्यञ् । सुते दधिष्व नश्चनः । चायतेरसन् । चायेरन्ने ह्रस्वश्चेति चकारादसुनो नुडागमश्च ॥ पन्थमथोः सर्वनामस्थाने । ६ । १ । १९९ ॥ आदिरुदात्तः स्यात् ॥ अयं पन्थाः । सर्वनामस्थाने किम् ? ज्योतिष्मतः पथो रक्ष । उदात्तनिवृत्तिस्वरेणान्तोदात्तं पदम् ॥ अन्तश्च तवै युगपत् । ६। १ । २०० ॥ तवैप्रत्ययान्तस्याद्यन्तौ युगपदाद्युदात्तौ स्तः ॥ हर्षसे दातवा उ ॥ क्षयो निवासे । ६ । १ । २०१ ॥ आद्युदात्तः स्यात् ॥ स्वे क्षये शुचिव्रत ॥ जयः करणम् । ६ । १ । २०२ ॥ कर- णवाची जयशब्द आद्युदात्तः स्यात् ॥ जयत्यनेन जयोऽश्वः ॥ वृषादीनां च । ६ । १ । २०३ ॥ आदिरुदात्तः ॥ आकृतिगणोऽयम् । वाजेभिर्वाजिनीवती । इन्द्रं वाणीः ॥ संज्ञा- यामुपमानम् ।६।१।२०४॥ उपमानशब्दः संज्ञायामाद्युदात्तः ॥ चञ्चेव चञ्चा । कनो- १ उञ्छ, म्लेच्छ, जक्ष, जल्प, जप, वध, युग, गरो, दूष्ये, वेगवेदवेष्टबन्धाः करणे, स्तुयुद्रुवश्छन्दसि, वर्तनि स्तोत्रे, श्वभ्रे दरः, साम्र्बतापौ भावगर्हायाम्, उत्तमशश्वत्तमौ सर्वत्र, भक्षमन्थगोमन्था इत्युञ्छादिः ॥ २ वृषः, जनः, ज्वरः, ग्रहः, हयः, गयः, नयः, तायः, तयः, चयः, श्रमः, वेदः, सूदः, अंशुः, गुहा, शमरमौ संज्ञायां भावकर्मणोः, मज्लः, शान्तिः, कामः, यामः, आरा, धारा, कारा, वहः, कल्पः, पादः । इति वृषादिः ॥