वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 569, कुल 835 में से
संदर्भ में पढ़ेंस्वरप्रकरणम् । ( ५१७ ) वौषट्शब्द उच्चैस्तरां वा स्यादेकश्रुतिर्वा ॥ विभाषा छन्दसि । १ । २ । ३६ ॥ छन्दसि- विभाषा एकश्रुतिः स्यात् ॥ व्यवस्थितविभाषेयम् । संहितायां त्रैस्वर्यम् । ब्राह्मणे एकश्रुतिर्बह्वृ- चानाम् ॥ अन्येषामपि यथासंप्रदायं व्यवस्था ॥ न सुब्रह्मण्यायां स्वरितस्य तूदात्तः । १ । २ । ३७ ॥ सुब्रह्मण्याख्ये निगदे यज्ञकर्मणीति विभाषा छन्दसीति च प्राप्ता एकश्रुतिर्न स्यात्स्वरितस्योदात्तश्च स्यात् ॥ सुब्रह्मण्यो ३ म् ॥ असावित्यन्तः ॥ तस्मिन्नेव निगदे प्रथ- मान्तस्यान्त उदात्तः स्यात् ॥ गार्ग्यो यजते । ञित्त्वात्प्राप्त आयुदात्तोऽनेन बाध्यते ॥ अमुष्ये- त्यन्तः * ॥ षष्ठ्यन्तस्यापि प्राग्वत् ॥ दाक्षेः पिता यजते ॥ स्यान्तस्योपोत्तमं च * ॥ चाद- न्तस्तेन द्वाव्युदात्तौ ॥ गार्ग्यस्य पिता यजते ॥ वा नामधेयस्य * ॥ स्यान्तस्य नामधेयस्य उपो- त्तममुदात्तं वा स्यात् ॥ देवदत्तस्य पिता यजते ॥ देवब्रह्मणोरनुदात्तः । १ । २ । ३८ ॥ अनयोः स्वरितस्यानुदात्तः स्यात्सुब्रह्मण्यायाम् ॥ देवा ब्रह्माण आगच्छत ॥ स्वरितात्संहि- तायामनुदात्तानाम् । १ । २ । ३९ ॥ स्वरितात्परेषामनुदात्तानां संहितायामेकश्रुतिः स्यात् ॥ इमं मे गङ्गे यमुने सरस्वति ॥ उदात्तस्वरितपरस्य सन्नतरः । १ । २ । ४० ॥ उदा- त्तस्वरितौ परौ यस्मात्तस्यानुदात्तस्यानुदात्ततरः स्यात् ॥ सरस्वति शुतुद्रि । व्यचक्षयत्स्वः ॥ तस्य परमाम्रेडितम् ॥ अनुदात्तं च । ८ । १ । १३ ॥ द्विरुक्तस्य परं रूपमनुदात्तं स्यात् ॥ दिवेदिवे ॥ इति साधारणस्वरप्रकरणम् । अथ धातुस्वरप्रकरणम् । धातोः । ६ । १ । १६२ ॥ अन्त उदात्तः स्यात् ॥ गोपायतं नः । असि सत्यः ॥ स्वपादि- हिंसामच्यनिटि । ६ । १ । १८८ ॥ स्वपादीनां हिंसेश्चानिट्यजादौ लसार्वधातुके परे आदि- रुदात्तो वा स्यात् ॥ स्वपादिरुदाद्यन्तर्गणः । स्वपन्ति । श्वसन्ति । हिंसन्ति । पक्षे प्रत्ययस्वरेण मध्योदात्ता । ङित्त्वेवेष्यते । नेह । स्वपानि । हिनसानि ॥ अभ्यस्तानामादिः । ६ । १ । १८९ ॥ अनिट्यजादौ लसार्वधातुके परे अभ्यस्तानामादिरुदात्तः ॥ ये ददति प्रिया वसु । परत्वाच्चित्स्वरमयं बाधते । दधाना इन्द्रे ॥ अनुदात्ते च ६ । १ । १९० ॥ अविद्यमानोदात्ते लसार्वधातुके परेऽभ्यस्तानामादिरुदात्तः ॥ दधासि रत्नं द्रविणं च दाशुषे ॥ भीहीभृहुम- दजनधनदरिद्राजागरां प्रत्ययात्पूर्व पिति । ६ । १ । १९२ ॥ भीप्रभृतीनामभ्यस्तानां पिति लसार्वधातुके परे प्रत्ययात्पूर्वमुदात्तं स्यात् ॥ योऽग्निहोत्रं जुहोति । नृमत्तु नः परिज्मा । माता यद्वीरं दधनत् । जागर्षि त्वम् ॥ लिति । ६ । १ । १९३ ॥ प्रत्ययात्पूर्वमुदात्तम् ॥ चिकीर्षकः ॥ आदिर्णमुल्यन्यतरस्याम् । ६ । २ । १९४ ॥ अभ्यस्तानामादिरुदात्तो वा णमुलि परे ॥ लोलूयंलोलूयम् । पक्षे लित्स्वरः ॥ अचः कर्तृयकि । ६ । १ । १९५ ॥ उपदे- शेऽजन्तानां कर्तृयकि परे आदिरुदात्तो वा ॥ लूयते केदारः स्वयमेव ॥ चङ्यन्यतरस्याम्