भारतकोश
वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary

भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा

DevanagariHindipublished835 पृष्ठ

पृष्ठ 568, कुल 835 में से

संदर्भ में पढ़ें
पृष्ठ 568

समानाधिकरणे सामान्यवचनम् ॥ समानाधिकरणे आमन्त्रिते परे विशेष्यं पूर्वमविद्यमानवन्न ॥ अग्ने तेजस्विन् । अग्ने भ्रातः । सामान्यवचनं किम् ? पर्यायेषु मा भूत् । अन्व्ये देवि सर- स्वति ॥ विभाषितं विशेषवचने ॥ अत्र भाष्यकृता बहुवचनमिति पूरितम् । सामान्यवचन- मिति च पूर्वसूत्रे योजितम् । आमन्त्रितान्ते विशेषणे परे पूर्वं बहुवचनान्तमविद्यमानवद्वा ॥ देवीः षळुर्वीरुरु नः कृणोत । अत्र देवीनां विशेषणं षडिति । देवाः शरण्याः । इह द्विती- यस्य निघातो वैकल्पिकः ॥ सुबामन्त्रिते पराङ्गवत्स्वरे । २ । १ । २ ॥ सुबन्तमामन्त्रिते परे परस्याङ्गवत्स्वरे कर्तव्ये ॥ द्रवत्पाणी शुभस्पती । शुभ इति शुभेः क्विबन्तात्षष्ठ्यन्तस्य परशरीरानुप्रवेशे षाष्ठिकमामन्त्रिताद्युदात्तत्वम् ॥ न चाष्टमिको निघातः शङ्क्यः । पूर्वाम- न्त्रितस्याविद्यमानत्वेन पादादित्वात् । यत्ते दिवो दुहित