वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 567, कुल 835 में से
संदर्भ में पढ़ेंस्वरप्रकरणम् । (२१९) छन्दसि । ८ । ३ । १०५ ॥ तृभिष्टुतस्य । तृभिः स्तुतस्य । गोष्टोमम् । गोस्तोमम् । पूर्वपदादित्येव सिद्धे प्रपञ्चार्थमिदम् ॥ पूर्वपदात् । ८ । ३ । १०६ ॥ पूर्वपदस्थान्निमित्तात्परस्य सस्य षो वा ॥ यदिन्द्राग्नी दिविष्टः । युवं हि स्थः स्वर्पती ॥ सुञः । ८ । ३ । १०७ ॥ पूर्वपद- स्थान्निमित्तात्परस्य सुञो निपातस्य सस्य षः ॥ ऊर्ध्व ऊषुणः । अभीषुणः ॥ सनोतेरनः । ८ । ३ । १०८ ॥ गोषा इन्द्रो नृषा असि । अनः किम् ? गोसनिः ॥ सहेः पृतनाऋताभ्यां च । ८ । ३ । १०९ ॥ पृतनाषाहम् । ऋताषाहम् । चात् ऋतीषाहम् ॥ निव्यभिभ्योऽड्व्य- वाये वा छन्दसि । ८ । ३ । १११ ॥ सस्य मूर्धन्यः ॥ न्यषीदत् । न्यसीदत् । व्यपी- दत् । व्यसीदत् । अभ्यष्टौत् । अभ्यस्तौत् ॥ छन्दस्युद्द्वग्रहात् । ८ । ३ । २६ ॥ ऋका- रान्तादवग्रहात्परस्य नस्य णः ॥ नृम्णाः । पितॄणाम् ॥ नश्च धातुस्थोरुषुभ्यः । ८ । ४ । २७ ॥ धातुस्थात् ॥ अग्ने रक्षा णः । शिक्षा णो अस्मिन् । उरु णस्कृधि । अभीशु णः । मो षु णः ॥ इत्यष्टमोऽध्यायः । इति वैदिकप्रकरणम् । अथ स्वरप्रकरणम् अनुदात्तं पदमेकवर्जम् । ६ । १ । १५८ ॥ परिभाषेयं स्वरविधिविषया ॥ यस्मिन्पदे यस्योदात्तः स्वरितो वा विधीयते तमेकमचं वर्जयित्वा शेषं तत्पदमनुदात्ताच्चं स्यात् ॥ गोपा- यतं नः । अत्र सनाद्यन्ता इति धातुत्वे धातुस्वरेण यकाराकार उदात्तः शिष्टमनुदात्तम् ॥ सतिशिष्टस्वरबलीयस्त्वमन्यत्र विकरणेभ्य इति वाच्यम् * ॥ तेनोक्तोदाहरणे गुपेर्धा- तुस्वर आयस्य प्रत्ययस्वरश्च न शिष्यते । अन्यत्रेति किम् ? यज्ञं यज्ञमभिवृधे गृणीतः । अत्र सतिशिष्टोऽपि श्ना इत्यस्य स्वरो न शिष्यते किं तु तस एव ॥ अनुदात्तस्य च यत्रोदात्त- लोपः । ६ । १ । १६१ ॥ यस्मिन्ननुदात्ते परे उदात्तो लुप्यते तस्योदात्तः स्यात् ॥ दे॒वीं वाच॑म् । अत्र ङीबुदात्तः ॥ चौ । ६ । १ । १२२ ॥ लुप्ताकारेऽञ्चतौ परे पूर्वस्यान्तोदात्तः स्यात् ॥ उदात्त- निवृत्तिस्वरापवादः । देवद्रीचीं नयत देवयन्तः ॥ अतद्धित इति वाच्यम् ॥ * ॥ दाधीचः । माधूचः । प्रत्ययस्वर एवात्र ॥ आमन्त्रितस्य च । ६ । १ । १९८ ॥ आमन्त्रितस्यादिरुदात्तः स्यात् ॥ अ॒ग्न इन्द्र॑ वरुण मित्र दे॒वाः ॥ आमन्त्रितस्य च । ८ । १ । १९ ॥ पदात्परस्यापा- दादिस्थितस्यामन्त्रितस्य सर्वस्यानुदात्तः स्यात् ॥ प्रागुक्तस्य षाष्ठस्यापवादोऽयमाष्टमिकः । इमं मे गङ्गे यमुने सरस्वति । अपादादौ किम् ? शुतुद्रि स्तोमम् ॥ आमन्त्रितं पूर्वमविद्यमानवत् ॥ अग्न इन्द्र । अत्रेन्द्रादीनां निघातो न पूर्वस्याविद्यमानत्वेन पदात्परत्वाभावात् ॥ नामन्त्रिते १ अनकारान्तसनोतेरिणुकुभ्यां परस्य सस्य षश्छन्दसि ॥ २ एभ्यः परस्य सुनोत्यादेः सस्याङ्व्यवाये षत्वं वा । प्रकरणप्राप्तस्य षत्वमात्रस्य विकल्पः ॥ ३ धातुस्थान्निमित्तादुरुशब्दात्सुशब्दाच्च परस्य नस् शब्दस्य नस्य णो भवति ॥