वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 585, कुल 835 में से
संदर्भ में पढ़ेंनपुंसकलङ्गे समासे पूर्वमन्तोदात्तम् ॥ गोपालसभम् । स्त्रीसभम् । सभायां किम् ? ब्राह्मणसेनम् । नपुंसके किम् ? राजसभा । प्रतिपदोक्तनपुंसकग्रहणान्नेह-रमणीयसभम् ब्राह्मणकुलम् । पुरे प्राचाम् । ६ । २ । ९९ ॥ देवदत्तपुरम् । नान्दीपुरम् । प्राचां किम् ? शिवपुरम् ॥ अरिष्टगौडपूर्वे च । ६। २ । १०० ॥ पुरे परे अरिष्टगौडपूर्वसमासे पूर्वमन्तोदात्तम् ॥ अरिष्ट- पुरम् । गौडपुरम् । पूर्वग्रहणं किम् ? इहापि यथा स्यात् । अरिष्टाश्रितपुरम् । गौडभृत्यपुरम् । न हास्तिनफलकमार्देयाः । ६ । २ । १०१ ॥ पुरे परे नैतान्यन्तोदात्तानि ॥ हास्तिनपुरम् । फलकपुरम् । मार्देयपुरम् । मृदेरपत्यमिति शुभ्रादित्वाड्ढक् ॥ कुसूलकूपकुम्भशालं बिले । ६।२।१०२ ॥ एतान्यन्तोदात्तानि बिले परे ॥ कुसूलबिलम् । कूपबिलम् । कुम्भबि- लम् । शालबिलम् । कुसूलादि किम् ? सर्पबिलम् । बिलेति किम् ? कुसूलस्वामी ॥ दिक्- शब्दा ग्रामजनपदाख्यानचानराटेष् । ६ । २ । १०३ ॥ दिक्शब्दा अन्तोदात्ता भव- न्त्येषु ॥ पूर्वेषुकामी । अपरकृष्णमृत्तिका । जनपद-पूर्वपञ्चालाः । आख्यान-पूर्वयाया- तम् । पूर्वचानराटम् । शब्दग्रहणं कालवाचिदिक्शब्दस्य परिग्रहार्थम् ॥ आचार्योपस- र्जनाऽन्तेवासिनि । ६ । २ । १०४ ॥ आचार्योपसर्जनन्तेवासिनि परे दिक्शब्दा अन्तोदात्ता भवन्ति ॥ पूर्वपाणिनीयाः । आचार्येति किम् ? पूर्वान्तेवासी । अन्तेवासिनि किम् ? पूर्वपाणिनीयं शास्त्रम् ॥ उत्तरपदवृद्धौ सर्वं च । ६।३।१०५ ॥ उत्तरपदस्येत्यधिकृत्य या वृद्धिविहिता तद्भूत्युत्तरपदे परे सर्वशब्दो दिक्शब्दाश्चान्तोदात्ता भवन्ति ॥ सर्वपाञ्चालकः । अपरपाञ्चालकः । अधिकारग्रहणं किम् ? सर्वभासः । सर्वकारकः ॥ बहुव्रीहौ विश्वं संज्ञायाम् । ६।२ १०६ ॥ बहुव्रीहौ विश्वशब्दः पूर्वपदभूतः संज्ञायामन्तोदात्तः स्यात् ॥ पूर्वपदप्रकृतिस्वरेण प्राप्तस्याद्युदात्तस्यापवादः । विश्वकर्मा । विश्वदेवः । आविश्चदेवं सत्पतिम् । बहुव्रीहौ किम् ? विश्वे च ते देवाश्च विश्वदेवाः । संज्ञायां किम् ? विश्वदेवः । प्रागव्ययीभावाद्बहुव्रीह्यधिकारः ॥ उदराश्वेषुषु ।६।२।१०७ ॥ संज्ञायामिति वर्तते ॥ वृकोदरः । हर्यश्वः । महेषुः ॥ क्षेपे ६।२।१०८ ॥ उदराश्वेषुषु पूर्वमन्तोदात्तं बहुव्रीहौ निन्दायाम् ॥ घटोदरः । कटुकाश्वः । चलाचलेषुः । अनुदर इत्यत्र नञ्सुभ्यामिति भवति विप्रतिषेधेन ॥ नदी बन्धुनि । ६ । २ । १०९ ॥ बन्धुशब्दे परे नद्यन्तं पूर्वमन्तोदात्तं बहुव्रीहौ ॥ गार्गीबन्धुः । नदी किम् ? ब्रह्मबन्धुः । ब्रह्मशब्द आद्युदात्तः । बन्धुनि किम् ? गार्गीप्रियः ॥ निष्ठोपसर्गपूर्वमन्यतरस्याम् । ६ । २ । ११० ॥ निष्ठान्तं पूर्वपदमन्तोदात्तं वा ॥ प्रधौतपादः । निष्ठा किम् ? प्रसेकमुखः । उपसर्गपूर्वं किम् ? शुष्कमुखः ॥ उत्तर- पदाऽऽदिः । ६।२।१११ ॥ उत्तरपदाधिकार आपादान्तम् आद्यधिकारस्तु प्रकृत्या भगा- लमित्यवधिकः ॥ कर्णो वर्णलक्षणात् । ६ । २ । ११२ ॥ वर्णवाचिनो लक्षणवाचिनश्च परः कर्णशब्द आद्युदात्तो बहुव्रीहौ ॥ शुक्लकर्णः । शङ्कुकर्णः । कर्णः किम् ? श्वेतपादः । वर्ण- लक्षणात्किम् । शोभनकर्णः ॥ संज्ञौपम्ययोश्च । ६।२।११३ ॥ कर्ण आद्युदात्तः ॥ मणि- कर्णः । औपम्ये-गोकर्णः ॥ कण्ठपृष्ठग्रीवाजङ्घं च । ६ । २ । ११४ ॥ संज्ञौपम्ययोर्बहु-