वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 586, कुल 835 में से
संदर्भ में पढ़ेंव्रीहौ ॥ शितिकण्ठः । काण्डपृष्ठः । सुग्रीवः । नाडीजङ्घः । औपम्ये-खरकण्ठः । गोपृष्ठः । अश्वग्रीवः । गोजङ्घः ॥ शृङ्गमवस्थायां च ॥ ६ । २ । ११५ ॥ शृङ्गशब्दोऽवस्थायां संज्ञोपम्य- योश्चायुदात्तो बहुव्रीहौ ॥ उद्गतशृङ्गः । द्व्यङ्गुलशृङ्गः । अत्र शृङ्गोद्गमनादिकृतो गवादेर्वयो- विशेषोऽवस्था । संज्ञायाम्-ऋष्यशृङ्गः । उपमायाम्-मेषशृङ्गः । अवस्थेति किम् ? स्थूल- शृङ्गः ॥ नञो जरमरमित्रमृताः ॥ ६ । २ । ११६ ॥ नञः परा एते आयुदात्ता बहुव्रीहौ ॥ न मे जरा अजरम् । अमरम् । अमित्रमर्दय । श्रवो देवेष्वमृतम् । नञः किम् ? ब्राह्मणमित्रः । जेति किम् ? अशत्रुः ॥ सोर्मनसी अलोमोषसी ॥ ६ । २ । ११७ ॥ सोः परं लोमोषसी वर्जयित्वा मन्नन्तमसन्तं चायु