वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 588, कुल 835 में से
संदर्भ में पढ़ेंनृवाहसा । इध्मप्रव्रश्चनः । उपपदात्-उच्चैःकारम् । ईषत्करः । गतीति किम् ? देवस्य कारकः । शेषे षष्ठी । कृद्ग्रहणं स्पष्टार्थम् । प्रपचतितरामित्यत्र तरबाद्यन्तेन समासे कृते आम् । तत्र सतिशिष्टत्वादाम्स्वरो भवतीत्येके । प्रपचतिदेश्यार्थं तु कृद्ग्रहणमित्यन्ये ॥ उभे- वनस्पत्यादिषु युगपत् । ६ । २ । १४० ॥ एषु पूर्वोत्तरपदे युगपत्प्रकृत्या ॥ वनस्पतिं वन आ । बृहस्पतिं यः । बृहच्छब्दोऽत्रायुदात्तो निपात्यते । हर्षया शचीपतिम् । शार्ङ्गरवादि- त्वादाद्युदात्तः शचीशब्दः । शचीभिर्न इति दर्शनात् । तनूनपादुच्यते । नराशंसं वाजि- नम् । निपातनाद्दीर्घः । शुनःशेपम् ॥ देवताद्वन्द्वे च । ६। २ । १४१ ॥ उभे युगपत्प्रकृत्या स्तः ॥ आय इन्द्रावरुणौ । इन्द्राबृहस्पती वयम् । देवता किम् ? प्लक्षन्यग्रोधौ । द्वन्द्वे किम् ? अग्निष्टोमः ॥ नोत्तरपदेऽनुदात्तादावपृथिवीरुद्रपूषमन्थिषु । ६ । २ । १४२ ॥ पृथि- व्यादिवर्जितेऽनुदात्तादावुत्तरपदे प्रागुक्तं न ॥ इन्द्राग्निभ्यां कंवृषणः । अपृथिव्यादौ किम् ? द्यावापृथिवी जनयन् । आयुदात्तो द्यावा निपात्यते । पृथिवीत्यन्तोदात्तः । सोमारुद्रौ । रोदे- र्णिलुक्चेति रगन्तो रुद्रशब्दः । इन्द्रापूषणौ । श्वन्नुक्षन्पूषन्निति पूषा अन्तोदात्तो निपात्यते । शुक्रामन्थिनौ । मन्थिन्निन्नन्तत्वादन्तोदात्तः । उत्तरपदग्रहणमनुदात्तादावित्यृत्तरपदविशेषणं यथा स्यात् द्वन्द्वविशेषणं मा भूत् । अनुदात्तादाविति विधिप्रतिषेधयोर्विषयविभागार्थम् ॥ अन्तः । ६। २ । १४३ ॥ अधिकारोऽयम् ॥ थाऽथघञ्क्ताऽजऽबित्रकाणाम् । ६ । २ । १४४ ॥ थ अथ घञ् क्त अच् अप् इत्र क एतदन्तानां गतिकारकोपपदात्परेषामन्त उदात्तः ॥ प्रभृत्यस्यायोः । आवसथः । घञ्-प्रभेदः । क्तः-धर्ता वज्री पुरुष्टुतः । पुरुषु बहुप्रदेशेषु स्तुत इति विग्रहः । अच्-प्रक्षयः । अप्-प्रलवः । इत्र-प्रलवित्रम् । क-गो- वृषः । मूलविभुजादित्वात्कः । गतिकारकोपपदादित्येव । सुस्तुतं भवता ॥ सूपमानात् क्तः ।६।२।१४५ ॥ सोरुपमानाच्च परं क्तान्तमन्तोदात्तम् ॥ ऋतस्य योनौ सुकृतस्य । शश- प्लुतः ॥ संज्ञायामनाचितादीनाम् । ६ । २ । १४६ ॥ गतिकारकोपपदात् क्तान्तमन्तो- दात्तमाचितादीन्व्र्जयित्वा ॥ उपहूतः शाकल्यः । दारिजग्धः कौण्डिन्यः । अनेति किम् । आचि- तम् । आस्थापितम् ॥ प्रवृद्धादीनां च । ६। २ । १४७ ॥ एषां क्तान्तमुत्तरपदमन्तोदात्तम् ॥ प्रवृद्धः । प्रयुक्तः । असंज्ञार्थोऽयमारम्भः । आकृतिगणोऽयम् ॥ कारकाद्दत्तश्रुतयोरेवा- शिषि । ६ । २ । १४८ ॥ संज्ञायामन्त उदात्तः ॥ देवदत्तः । विष्णुश्रुतः । कारकात्किम् ? सम्भूतः । दत्तश्रुतयोः किम् ? देवपालितः । अस्मान्नियमादत्र संज्ञायामेनेति न । तृतीयाकर्म- णीति तु भवति । एव किम् । कारकावधारणं यथा स्यात् दत्तश्रुतावधारणं मा भूत् । अका-
१ वनस्पतिः, बृहस्पतिः, शचीपतिः, तनूनपात्, नराशंसः, शुनःशेपः, षण्डामर्कौ, तृष्णावरूत्री, लम्बा- विश्ववयसौ, मृत्युः । इति वनस्पत्यादिः । २ आचित, पर्याचित, आस्थापित, परिगृहीत,, निरुक्त, प्रतिपन्न, अपश्लिष्ट, प्रश्लिष्ट, उपहित, उपस्थित, संहितागवि । इत्याचितादिः । ३ प्रवृद्धं यानम्, प्रवृद्धो वृषलः, प्रयुतासूण्वः, आकर्षेऽवहितः । अवहितो भोगेषु, खट्वारूढः । कविशंस्तः । इति प्रवृद्धादिः । आकृतिगणोऽयम् । प्रवृद्धो वृषकृतो रथ इत्यादि ।