वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 593, कुल 835 में से
संदर्भ में पढ़ेंनित्यकृतसमासान्त एव मूर्धशब्दः । तस्यैतत्प्रयोजनमसत्यपि समासान्ते अन्तोदात्तत्वं यथा स्यात् । एतदेव ज्ञापकमनित्यः समासान्तो भवतीति । यद्यपि च समासान्तः क्रियते तथापि बहुव्रीहिकार्यत्वात्तदेकदेशत्वाच्च समासान्तोदात्तत्वं पक्षे भवत्येव । द्विमूर्धः । त्रिमूर्धः । द्वित्रिभ्यां किम् ? कल्याणमूर्धा । बहुव्रीहौ किम् ? द्वयोर्मूर्धा द्विमूर्धा ॥ सक्थं चाऽक्रा- न्तात् ।६।२।१९८ ॥ गौरसक्थः । श्लक्ष्णसक्थः । अक्रान्तात्किम् ? चक्रसक्थः । समासान्तस्य षचश्चित्त्वान्नित्यमेवान्तोदात्तत्वं भवति ॥ परादिश्च्छन्दसि बहुलम् ।६।२। १९९ ॥ छन्दसि परस्य सक्थशब्दस्यादिरुदात्तो वा ॥ अजिसक्थमालभेत । अत्र वार्ति- कम् ॥ परादिश्च परान्तश्च पूर्वान्तश्चापि दृश्यते । पूर्वाद्यश्च दृश्यन्ते व्यत्ययो बहुलं