वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 594, कुल 835 में से
संदर्भ में पढ़ेंचैन्न न युनाति । तिङन्तद्वयमपि न निहन्यते ॥ यावद्यथाभ्याम् । ८ । १ । ३६ ॥ आभ्यां योगे तिङन्तं नानुदात्तम् ॥ यथाचित्कण्वमावतम् ॥ पूजायां नानन्तरम् । ८ । १ । ३७ ॥ यावद्यथाभ्यां युक्तमनन्तरं तिङन्तं पूजायां नानुदात्तम् ॥ यावत्पचति शोभनम् । यथा पचति शोभनम् । पूजायां किम् ? यावद् भुङ्क्ते । अनन्तरं किम् ? यावद्देवदत्तः पचति शोभनम् । पूर्वेणात्र निघातः प्रतिषिध्यते ॥ उपसर्गव्यपेतं च । ८ । १ । ३८ ॥ पूर्वेणान- न्तरमित्युक्तम् । उपसर्गव्यवधानार्थं वचनम् । यावत्प्रपचति शोभनम् । अनन्तरमित्येव । यावद्देवदत्तः प्रपचति शोभनम् ॥ तुपश्यपश्यताडहैः पूजायाम् । ८ । १ । ३९ ॥ एभि- र्युक्तं तिङन्तं न निहन्यते पूजायाम् ॥ आदह स्वधामनु पुनर्गर्भत्वमेरिरे ॥ अहो च । ८ । १ । ४० ॥ एतद्योगे नानुदात्तं पूजायाम् ॥ अहो देवदत्तः पचति शोभनम् ॥ शेषे विभाषा । ८ । १ । ४१ ॥ अहो इत्यनेन युक्तं तिङन्तं वानुदात्तं पूजायाम् ॥ अहो कटं करिष्यति ॥ पुरा च परीप्सायाम् । ८ । १ । ४२ ॥ पुरेत्यनेन युक्तं वानुदात्तं त्वरायाम् ॥ अधीष्व माणवक पुरा विद्योतते विद्युत् । निकटगामिन्यत्र पुराशब्दः । परीप्सायां किम् ? न तेन स्म पुराधीयते । चिरातीतेऽत्र पुरा ॥ नन्वित्यनुज्ञैषणायाम् । ८ । १ । ४३ ॥ ननु इत्य- नेन युक्तं तिङन्तं नानुदात्तम्रनुप्रार्थनायाम् ॥ ननु गच्छामि भोः । अनुजानीहि मां गच्छन्त- मित्यर्थः । नन्विति किम् ? अकार्षीः कटं त्वम् । ननु करोमि । पृष्टप्रतिवचनमेतत् ॥ किं क्रियाप्रश्नेऽनुपसर्गमप्रतिषिद्धम् । ८ । १ । ४४ ॥ क्रियाप्रश्ने वर्तमानेन किंशब्देन युक्तं तिङन्तं नानुदात्तम् ॥ किं द्विजः पचत्याहोस्विद्गच्छति । क्रियेति किम् ? साधनप्रश्ने मा भूत् । किं भक्तं पचत्यपूपान्वा । प्रश्ने किम् ? किं पठति । क्षेपोऽयम् । अनुपसर्गं किम् ? किं प्रप- चति उत प्रकरोति । अप्रतिषिद्धं किम् ? द्विजो न पचति ॥ लोपे विभाषा । ८ । १ । ४५ ॥ किमोऽप्रयोगे उक्तं वा ॥ देवदत्तः पचत्याहोस्चित्पठति ॥ एहिमन्ये प्रहासे लृट् । ८ । १ । ४६ ॥ एहिमन्ये इत्यनेन युक्तं लृडन्तं नानुदात्तं क्रीडायाम् ॥ एहि मन्ये भक्तं भोक्ष्यसे नहि भोक्ष्यसे भुक्तं तत्तवतिथिभिः । प्रहासे किम् ? एहि मन्यसे ओदनं भोक्ष्ये इति सुष्ठु मन्यसे । गत्यर्थलोटा लृडित्यनेनैव सिद्धे नियमार्थोऽयमारम्भः । एहिमन्येयुक्ते प्रहास एव नान्यत्र । एहि मन्यसे ओदनं भोक्ष्ये ॥ जातूपूर्वम् । ८ । १ । ४७ ॥ अविद्यमानपूर्व यज्जातु तेन युक्तं तिङन्तं नानुदात्तम् ॥ जातु भोक्ष्यसे । अपूर्वं किम् ? कटं जातु करिष्यसि ॥ किंवृत्तं च चिदुत्तरम् । ८ । १ । ४८ ॥ अविद्यमानपूर्वं चिदुत्तरं यत्किंवृत्तं तेन युक्तं तिङन्तं नानुदात्तम् ॥ विभक्त्यन्तं डतरडतमन्तं किमो रूपं किंवृत्तम् । कश्चिद् भुङ्क्ते । कतरश्चित् । कतमश्चिद्वा । चिदुत्तरं किम् ? को भुङ्क्ते । अपूर्वमित्येव । रामः किञ्चि- त्पठति ॥ आहोउताहो चाऽनन्तरम् । ८ । १ । ४९ ॥ आहो उताहो इत्याभ्यां युक्तं तिङन्तं नानुदात्तम् ॥ आहो उताहो वा भुङ्क्ते । अनन्तरमित्येव । शेषे विभाषां वक्ष्यति । अपूर्वेति किम् ? देव आहो भुङ्क्ते ॥ शेषे विभाषा । ८ । १ । ५० ॥ आभ्यां युक्तं व्यव-