वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 607, कुल 835 में से
संदर्भ में पढ़ेंशिक्षा । ( ३ ) स्वरवर्णार्थसंयुक्तम् । ऋग्यजुःसामभिः पूतो ब्रह्मलोके महीयते ॥ ५५ ॥ १० ॥ शंकरः शांकरीं प्रादादाक्षीपुत्राय धीमते । वाङ्मयेभ्यः समाहृत्यः देवीं वाचमिति स्थितिः ॥ ५६ ॥ येनाक्षरसमाम्नायमधिगम्य महेश्वरात् । कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः ॥ ५७ ॥ येन धौता गिरः पुंसां विमलैः शब्दवारिभिः । तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः ॥५८॥ अज्ञानान्धस्य लोकस्य ज्ञानाञ्जनशलाकया । चक्षुरुन्मीलितं येन तस्मै पाणिनये नमः ॥ ५९॥ त्रिनयनमभिमुखनिःसृतामिमां य इह पठेत्प्रयतश्च सदा द्विजः । स भवति धनधान्यपशुपुत्रकी- र्त्तिमानतुलं च सुखं समश्नुते दिवीतिदिवीति ॥ ६० ॥ ११ ॥ अथ शिक्षामात्मोदात्तश्च हकारं स्वराणां यथागीत्यचोस्पृष्टोदात्तं चाषस्तु शंकर एकादश॥ ॥इति पाणिनीया शिक्षा समाप्ता॥