वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 64, कुल 835 में से
संदर्भ में पढ़ेंहल्संधिप्रकरणम् । ( १६ ) लुक् । अर्थग्रहणं किम् ? वृत्तावर्थान्तरोपसंक्रान्ते मा भूत् । वाप्यामश्वो वाप्यश्वैः ॥ अणोऽ- प्रगृह्यस्यानुनासिकः । ८।४।५७ ॥ अप्रगृह्यस्याणोऽवसानेऽनुनासिको वा स्यात् । दधिँ । दधि । अप्रगृह्यस्य किम् ? अग्नी ॥ इत्यच्प्रकरणम् । अथ हल्सन्धिप्रकरणम् । स्तोः श्चुना श्चुः । ८।४।४० ॥ सकारतवर्गयोः शकारचवर्गाभ्यां योगे शकारचवर्गौ स्तः । हरिशेते । रामश्चिनोति । सञ्चित् । शार्ङ्गिञ्जय ॥ शात् । ८।४।४४ ॥ शात्परस्य तव- र्गस्य श्चुत्वं न स्यात् । विश्नः । प्रश्नः ॥ ष्टुना ष्टुः । ८।४।४१ ॥ स्तोः ष्टुना योगे ष्टुः स्यात् । रामष्षष्ठः । रामष्टीकते । पेष्टा । तट्टीका । चक्रिण्ढौकसे ॥ न पदान्ताट्टोरनाम् ८।४।४२ ॥ अनामिति लुप्तषष्ठीकं पदम् । पदान्ताट्टवर्गात्परस्यानामः स्तोः ष्टुर्न स्यात् । षड् सन्तः । षट् ते । पदान्तात्किम् ? ईट्टे । टोः किम् ? सर्पिष्टमम् ॥ अनाम्नवतिनगरीणामिति वाच्यम् * ॥ षण्णाम् । षण्णवतिः । षण्णगर्यः ॥ तोः षि । ८।४।४३ ॥ तवर्गस्य षकारे परे न ष्टुत्वम् । सन्षष्ठः ॥ झलां जशोऽन्ते । ८।२।३९ ॥ वागीशः । चिद्रूपम् ॥ यरोऽनुनासिक