वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 657, कुल 835 में से
संदर्भ में पढ़ेंअथ गणपाठः। प्रथमोऽध्यायः। सर्वादीनि सर्वनामानि । १ । १ । २७ ॥ सर्व विश्व उभ उभय डतर डतम अन्य अन्यतर इतर त्वत् त्व नेम सम सिम । पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्था- यामसंज्ञायाम् । स्वमज्ञातिधनाख्यायाम् । अन्तरं बहिर्योगोपसंव्यानयोः । त्यद् तद् यद् एतद् इदम् अदस् एक द्वि युष्मद् अस्मद् भवतु किम् ॥ इति सर्वादिः ॥ १ ॥ स्वरादिनिपातमव्ययम् । १ । १।३७॥ स्वर् अन्तर् प्रातर् । अन्तोदात्ताः । पुनर् सनुतर् उच्चैस् नीचैस् शनैस् ऋधक् ऋते युगपत् आरात् [ अन्तिकात् ] पृथक् । आद्युदात्ताः । ह्यस् श्वस् दिवा रात्रौ सायम् चिरम् मनाक् ईषत् [ शश्वत् ] जोषम् तूष्णीम् बहिस् [ अधस् ] अवस् समया निकषा स्वयम् मृषा नक्तम् नञ् हेतौ [ हे है ] इद्धा अद्धा सामि । अन्तोदात्ताः। वत् [५।१।११६] ब्राह्मणवत् क्षत्रियवत् सना सनत् सनात् उपधा तिरस् । आद्युदात्ताः । अन्तरा अन्तोदात्तः । अन्तरेण [ मक् ] ज्योक् [ योक् नक् ] कम् शम् सहसा [ श्रद्धा ] अलम् स्वधा वषट् विना नाना स्वस्ति अन्यत् अस्ति उपांशु क्षमा विहायसा दोषा मुधा दिष्ट्या वृथा मिथ्या । क्त्वातोसुन्कसुनः । कृन्मकारसंध्यक्षरान्तोऽव्ययीभावश्च । पुरा मिथो मिथस् प्रायस् प्रवाहिकम् प्रवाहिका आर्यहलम् अभीक्ष्णम् साकम् सार्धम् [ सत्रम् समम् ] नमस् हिरुक् । तसिलादयस्तद्धिता एधाच्चपर्यन्ताः [ ५ । ३ । ७-४६ ] शस्तसी कृत्वसुच् सुच् आस्थालौ । च्यर्थाश्च । [ अथ ] अम् आम् प्रताम् प्रतान् प्रशान् । आकृतिगणोऽयम् । तेनान्येऽपि । तथा हि । माङ् श्रम् कामम् [ प्रकामम् ] भूयस् परम् साक्षात् साचि ( सावि ) सत्यम् मङ्क्षु संवत् अवश्यम् सपदि प्रादुस् आविस् अनिशम् नित्यम् नित्यदा सदा अजस्रम् संततम् उषा ओम् भूर् भुवर् झटिति तरसा सुष्ठु कु अञ्जसा अ मिथु ( अमिथु ) विथक् भाजक् अन्वक् चिराय चिरम् चिररात्राय चिरस्य चिरेण चिरात् अस्तम् आनुषक् अनुषक् अनुष्टु अम्नस् ( अम्भस् ) अम्नर् ( अम्मर् ) स्थाने वरम् दुष्ठु बलात् शु अर्वाक् सुदि वदि इत्यादि । तसिलादयः प्राक्पाशपः [ ५ । ३ । ७-५ । ३ ४७ ] शस्प्रभृतयः प्राक्स- मासान्तेभ्यः [ ६ । ४ । ४२-६७ ] । मान्तः कृत्वोर्थः । तसिवती नानाञाविति ॥ इति स्वरादिः ॥ २ ॥ चादयोऽसत्त्वे । १ । ४ । ५७ ॥ च वा ह अह एव एवम् नूनम् शश्वत् यूपत् युगपत् भूयस् सूपत् कूपत् कुवित् नेत् चेत् चण् कच्चित् यत्र तत्र नह हन्त माकिम् माकीम् माकिर् नकिम् नकीम् नकिर् आकीम् माङ् नञ् तावत् यावत् त्वा न्वै त्वै द्वै रै [ रे ] श्रौषट् वौषट् स्वाहा स्वधा ओम् तथा तथाहि खलु किल अथ सुष्ठु स्म अ इ उ ऋ ऌ ए ऐ