वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 684, कुल 835 में से
संदर्भ में पढ़ें( ७६ ) गणपाठे- प्रत्येऽवृद्धमकर्क्यादीनाम् । ६ । २ । ८७ ॥ कर्क ( कर्की ) मन्त्री मकरी कर्कन्धु शमी करीर ( करीर ) कन्दुक कुवल ( कवल ) बदरी ॥ इति कर्क्यादिः ॥ ११ ॥ मालादीनां च । ६ । २ । ८८ ॥ माला शाला शोणा ( शोण ) द्राक्षा साक्षा क्षामा काञ्ची एक काम दिवोदास वध्यश्व ॥ इति मालादिः ॥ आकृतिगणः ॥ १२ ॥ ऋत्वादयश्च । ६ । २ । ११८ ॥ ऋतु दृशीक प्रतीक प्रतूर्ति हव्य भव्य भग ॥ इति ऋत्वादिः ॥ १३ ॥ आदिश्चिहणादीनाम् । ६ । २ । १२५ ॥ चिहण मदुर सद्गमर वैतुल पटक मैडा- लिकर्णक वैडालिकर्णि कुक्कुट चिक्कण चिल्कण ॥ इति चिहणादिः ॥ १४ ॥ वर्गादयश्च । ६ । २ । १३१ ॥ दिगादिषु वर्गादयस्त एव कृतयदन्ता वर्गादयः ॥ १५॥ चूर्णादीन्यप्राणिषष्ठ्याः । ६ । २ । १३४ ॥ चूर्ण करिष करीष शाकिन शाकट द्राक्षा तूस्त कुन्दम दलप चमसी चकन चौल ॥ इति चूर्णादिः ॥ १६ ॥ उभे वनस्पत्यादिषु युगपत् । ६ । २ । १४० ॥ वनस्पतिः बृहस्पतिः शचीपतिः तनून्नपात् नराशंसः शुनःशेपः शण्डामर्कौ तृष्णावरूत्री लम्बाविश्ववयसौ मर्त्येयुः इति वन- स्पत्यादिः ॥ १७ ॥ संज्ञायामनाचितादीनाम् । ६ । २ । १४६ ॥ आचित पर्याचित आस्थापित परि- गृहीत निरुक्त प्रतिपन्न अपश्लिष्ट प्रश्लिष्ट उपहित उपस्थित संहिताविव ॥ इत्याचितादिः॥१८॥ प्रवृद्धादीनां च । ६ । २ । १४७ ॥ प्रवृद्धं यानम् । प्रवृद्धो वृषलः । प्रयुतासुष्णवः । आकर्षे अवहितः अवहितो भोगेषु खट्वारूढः । कविशस्तः ॥ इति प्रवृद्धादिः ॥ आकृति- गणोऽयम् ॥ तेन । प्रवृद्धं यानम् । अप्रवृद्धो वृषकृतो रथ इत्यादिः ॥ १९ ॥ कृत्योकेष्णुञ्चार्वादयश्च । ६ । २ । १६० ॥ चारु साधु यौधिक ( यौधिकि अनङ्गमेजय वदान्य अकस्मात् । वर्तमानवर्धमानत्वरमाणध्रियमाणक्रियमाणरोचमानशोभ- मानाः संज्ञायाम् । विकारसदृशे व्यन्तससस्ते । गृहपति गृहपतिक । राजाह्नोश्छन्दसि ॥ इति चार्वादिः ॥ २० ॥ न गुणाद्योऽवयवाः । ६ । २ । १७६ ॥ गुण अक्षर अध्याय सूक्त छन्दोमान ॥ इति गुणादिः ॥ आकृतिगणः ॥ २१ ॥ निरुदकादीनि च । ६ । २ । १८४ ॥ निरुदक निरुपल निर्मक्षिक निर्मशक निष्कां- तक निष्कालिक निष्पेष दुस्तरीप निस्तरीप निस्तरीक निरजिन उदजिन उपजिन्न । परेहस्तपादकेशकर्णाः ॥ इति निरुदकादिः ॥ आकृतिगणः ॥ २२ ॥ प्रतेरंश्वादयस्तत्पुरुषे । ६ । २ । १९३ ॥ अंशु जन राजन् उष्ट्र खेटक अजिर आर्द्री -श्रवण कृत्तिका अर्धपुर ॥ इत्यंश्वादिः ॥ २३ ॥ उपाद्द्यूनजिनमगौरादयः । ६ । २ । १९४ ॥ गौर तैष तैल लैट लोट जिह्वा कृष्ण कन्या गुध कल्प पाद ॥ इति गौरादिः ॥ २४ ॥